श्रेयान्स्वधर्मो विगुणः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

(फलकम्:IPA audio link)

गीतोपदेशः
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ ३५ ॥

अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य पञ्चत्रिंशत्तमः (३५) श्लोकः ।

पदच्छेदः

श्रेयान् स्वधर्मः विगुणः परधर्मात् स्वनुष्ठितात् स्वधर्मे निधनं श्रेयः परधर्मः भयावहः ॥ ३५ ॥

अन्वयः

स्वनुष्ठितात् परधर्मात् विगुणः स्वधर्मः श्रेयान् । स्वधर्मे निधनं श्रेयः । परधर्मः भयावहः ।

शब्दार्थः

अन्वयः सरलसंस्कृतम्
स्वनुष्ठितात् साधु आचरितात्
परधर्मात् अन्यधर्मात्
विगुणः गुणरहितः अपि
स्वधर्मः आत्मधर्मः
श्रेयान् वरीयान्
स्वधर्मे आत्मधर्मे
निधनम् नाशोऽपि
श्रेयः साधीयान्
परधर्मः अन्यधर्मः
भयावहः भयजनकः ।

व्याकरणम्

सन्धिः

  1. स्वधर्मो विगुणः = स्वधर्मः + विगुणः – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च
  2. परधर्मो भयावहः = स्वधर्मः + विगुणः – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च

तद्धितान्तः

  1. श्रेयान् = प्रशस्/वृद्ध + ईयसुन् (श्र इति आदेशः)

अर्थः

परधर्माचरणस्य अपेक्षया स्वधर्माचरणम् उत्तमम् । किञ्च स्वधर्मे नाशोऽपि श्रेयः । परधर्मस्तु अनर्थजनकः एव भवति ।

शाङ्करभाष्यम्

तत्र रागद्वेषप्रयुक्ते मन्यते शास्रार्थमप्यन्यथा परधर्मोऽपि धर्मत्वादनुष्ठेय एवेति तदसत्-श्रेयानिति। श्रेयान्प्रशस्यतरस्वो धर्मः स्वधर्मो विगतगुणोऽप्यनुष्ठीयमानः परधर्मात् स्वनुष्ठितात् साङ्गुण्येन संपादितादपि, स्वधर्मे स्थितस्य निधनं मरणमपि श्रेयः परधर्मे स्थितस्य जीवितात्,कस्मात् परधर्मो भयावहः, नरकादिलक्षणं भयमावहति यतः।।35।।

फलकम्:गीताश्लोकक्रमः

फलकम्:कर्मयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु