शिमला

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement शिमला हिमाचलप्रदेशस्‍य राजधानी अस्‍ति ।१८६४तमे वर्षे आंग्लप्रशासनेन शिमलानगरं भारते ब्रिटिशशाशनस्य ग्रीष्मकालीन राजधानी घोषिता। नगरमेतद् लोकप्रियं रमणीयं पर्यटनस्थलमस्ति। शिमलानगरं बहुधा (पर्वतानां साम्राज्ञी)इत्यापि कत्थयते। पूर्वम् अस्य नगरस्य श्यामला इति नाम आसीत् । आङ्लाध्नां प्रशासनसमये शिम्ला ग्रीष्मकालीना राजधानी आसीत् । इदानीं हिमाचलप्रदेशस्य राजधानी शिम्ला सुन्दरं गिरिधाम इति अतिप्रसिद्धम् अस्ति ।Queen of hills, Jewel of the orient इति च प्रसिद्धम् अस्ति । सागरस्तरतः ७२६२ पादोन्नते प्रदेशे शीतलवातावरणे एतन्नगर अस्ति । अत्र बहवः विदेशीयाः आगन्तुम् इच्छन्ति । अत्र पैन् देवदारु ओक् इत्यादिवृक्षाः अतीव सुन्दराः सन्ति । प्रकृतेः सुन्दररुपं दृष्टुम् एतत् स्थलम् अतीव उत्तमम् अस्ति । Mall मार्गः वाणिज्यकेन्द्रम् अस्ति । जाकुपर्वतः (८०० पादमितः) , चाडलुक् जलपातः, कुफ्रि, नालदेहरा, चैल, प्रास्टेक् हिल्स् इत्यादिस्थानानि दर्शनीयानि आकर्षकाणि स्थानानि सन्ति । जाकुपर्वततः हिमालयदर्शनम् अतीवानन्ददायकं भवति । चाड्लुक् सरोवरे नौकाविहारः काल्पितः अस्ति । कुफ्रिस्थाने हिमक्रीडा प्रसिद्धा अस्ति । ग्रीष्मकाले याक् प्राणिनः उपरि उपविश्य प्रवासं कुर्वन्ति । नालदेहरास्थाने (२२ कि.मी) गाल्फ् क्रीडाङ्गणम् अस्ति । चैल् नदी पर्वतप्रपाते प्रवहति । प्रास्टेकहिल्स् (५ कि.मी) सूर्यास्तदर्शनाय, चन्द्रोदयदर्शनाय च प्रसिद्धं स्थानमस्ति । नालदेहराप्रदेशे क्रिकेट् क्रीडाङ्गणम् अस्ति । अत्र वस्तुसङ्ग्रहालयः अपि अस्ति । राजानः महाराजाः अङ्गलाः च अत्र क्रिकेट् क्रीडन्ति स्म ।

बाह्यसम्पर्कतन्तु

फलकम्:हिमाचलप्रदेशराज्यम्

"https://sa.bharatpedia.org/index.php?title=शिमला&oldid=8814" इत्यस्माद् प्रतिप्राप्तम्