विक्रमादित्यः (नौयानम्)

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
फलकम्:Infobox ship imageफलकम्:Infobox ship careerफलकम्:Infobox ship characteristics

ऐ एन् एस्(INS) विक्रमादित्यः (Vikramāditya) पूर्वसोवियत्-राष्ट्रस्य एडमिरल् गोर्शकोव् इति विमानवाहक-नौयानस्य नूतननाम अस्ति । एतद् वृहन्नौयानम् इदानीं भारतस्य अधीनं वर्तते । किञ्चिद् कालपूर्वम् एवम् अनुमीयते स्म यत् यानमिदं २०१२ वर्षाभ्यन्तरे भारतस्य नौसेनायां भवति इति । परन्तु बहुविलम्बेन[१] २०१३ तमवर्षस्य नवेम्बर् मासस्य १६ दिनाङ्के एतद् विशालनौयानं भारतीयनौसेनायां आगतम् ।[२] [३] २०१४ वर्षस्य जनवरीमासस्य ६ दिनाङ्के ऐ एन् एस् विक्रमादित्यः भारतीयनौसेनायाः कारवारस्थिते आगतः[४]विक्रमादित्यनौयानम् यूक्रेन्देशस्य माइकोलैव् ब्लैक् ‍सी शिपयार्ड् मध्ये निर्मितं(१९७८-१९८२) एकं कीव् श्रेण्यान्तर्भुतं विमानवाहकनौयानस्य रूपान्तरणम् अस्ति । रशियादेशस्थिते अर्खान्गेल्स्क् ओब्लास्ट् इतस्य सेवेरॉद्विनस्क् संस्थायाः सेवमाश् शिपयार्डे अस्य यानस्य पुनर्नवीकरणम् अभवत् । यानमिदं भारतस्य एकमेव कार्यरतस्य विमानवाहकनौयानस्य ऐ एन् एस् विराटस्य स्थाने कार्यं करिष्यति । विक्रमादित्यस्य निर्माणे भारतस्य $२.३५ बिलियन् धनव्यायः अभूत् [५]

नामकरणम्

"विक्रमादित्यः" इति संस्कृतशब्दस्य अर्थः "सूर्यसमः यस्य विक्रमः" । शाब्दिकीं व्युत्पत्तिं विहाय उज्जयिन्याः प्रसिद्धस्य पराक्रमशालीराज्ञः द्वितीयचन्द्रगुप्तस्यापि ख्यातिः विक्रमादित्यः इत्यनेन नाम्ना आसीत् । महान् योद्धारूपेण इतिहासख्यातः अयं विक्रमादित्यः । नौयानस्य नामकरणमपि एतस्मात् प्रसिद्धिं गता ।

क्षमता

विक्रमादित्यनौयानं ४५३०० टन् भारयुक्तं, २८४ मीटर् दैर्घ्यं तथा ६० मीटर् औन्नत्यविशिष्टं युद्धयानम् अस्ति[६] । तुलनात्मकदृष्ट्या अस्य यानस्य दैर्घ्यं त्रिणि पादकन्दुकक्रीडाङ्गणसमम् अस्ति । औन्नत्यञ्च प्रायः २२ अट्टविशिष्टं भवनसदृशम् अस्ति । अत्र मिग्(MiG)-२९-के(K) युद्धविमानं, कामोव्-३१, कामोव्-२८, सीकिङ्ग, ए एल् ऐच् ध्रुवः, चेतकः हेलिकॉप्टर् सहित त्रिंशत् विमानानि भवन्ति तथा एन्टी मिसैल् प्रणाल्यः सक्रियाः भवन्ति । एतस्याः व्यवस्थायाः परिणामस्वरूपं एकसहस्र किलोमीटर् पर्यन्तं युद्धविमानं, युद्धनौयानं वा अस्य परिधौ भवति । १६०० नौसैनिकानां कर्मीवाहिनीनिमित्तं १८ मेगावाट् जेनरेटर्-तः विद्युतस्तथा आस्मोसिस् प्लान्ट्तः ४०० टन् पेयजलं उपलब्धम् भवति ।

इतिहासः

क्रयणम्

विमानवाहकः यदा एडमिरल् गोर्शकोव् आसीत्
  • १९८७ तमे वर्षे एडमिरल् गोर्शकोव् इति नौयानं को सोवियत् सङ्घस्य नौसेनायां योजितमासीत् । परन्तु सोवियत् सङ्घस्य विलुप्तेः पश्चात् १९९६ वर्षे सर्वकारेण एतद् यानं निष्क्रियं कारितमासीत् । अयं विषयः भारतसर्वकारस्य ध्यानं आकर्षितम् आसीत् । तदा भारतमपि स्वविमानवाहकनौयानस्य क्षमतावर्धने प्रयत्नशीलः आसीत् [७]। वहुवर्षपर्यन्तं चर्चायाः पश्चात् २० जनवरी, २००४ तमे वर्षे अस्मिन् विषये रशिया-भारतयोः सन्धिपत्रे हस्ताक्षरम् अभूत् । नौयानम् तदा निष्क्रियमासीत् तथापि भारतसर्वकारेण पुनर्निमाणनिमित्तं $८०० मिलियन् तथा $१ बिलियन् धनराशिः उच्चस्तरीकरणार्थं दत्तः । भारतीयनौसेना एतस्मिन् नौयाने ई-2सी हॉक् ऐ(E-2C Hawkeye) व्यवस्था स्थापयितुं उत्साही आसीत् । परन्तु अनन्तरं निर्णयः परिवर्तितः आसीत्[८] २००९ वर्षे भारतीयनौसेनानिमित्तं नोर्थरोप् ग्रुम्मान् संस्थया उन्नता व्यवस्था ई-2डी हॉव्कै (E-2D Hawkeye) प्रदर्शिता[९]
  • $१ बिलियन् धनेन मिकोविमानयानं मिग्-२९के फल्क्रम्-डी (प्रोडक्ट् ९.४१),मिग्-२९के यू बी, ६ कामोव् के ए-३१ "हेलिक्स्" टोहीविमानं, टारपीडो ट्यूब्स्, तथा मिसैलाद्याः प्रणाल्यः सौपलभ्यमानाः भवन्ति इति सन्धिपत्रे आसीत् ।
१४.३º बो स्कै-जम्प् कृते मार्गनिर्माणार्थं याने अग्रे स्थितानां पी-५००, बाजल्ट् क्रूज् मिसैल् लाञ्चर् तथा चत्वारः अन्ते किन्झल् मिसैल् लाञ्चर् आद्यस्त्राणां अनावृतकरणस्य अपेक्षा आसीत् (विमानवाहकनौयानस्य रूपान्तरणस्य योजनानुसारं)
  • १४.३º बो स्कै-जम्प् कृते मार्गनिर्माणार्थं याने अग्रे स्थितानां पी-५००, बाजल्ट् क्रूज् मिसैल् लाञ्चर् तथा चत्वारः अन्ते किन्झल् मिसैल् लाञ्चर् आद्यस्त्राणां अनावृतकरणस्य अपेक्षा आसीत् । शॉर्ट् टेक्-ऑफ् बट् एसिस्टेड् रिकवरी (एस् टी ओ बी ए आर् (STOBAR)) विन्यासार्थं एषा योजना प्रयोजनीया आसीत् [१०] । एतस्मात् गोर्शकोव् नौयानस्य सङ्करवाहक/क्रुजर्-तः केवलं वाहकरूपेण परिवर्तनं भविष्यति ।
  • ऐ एन् एस् विक्रमादित्यः इति नौयानम् अर्पयितुं घोषणा २००८ तमवर्षस्य अगस्ट् मासे अभवत् । एतस्मात् यानमिदं भारतीयनौसेनायाः एकमात्रं विमानवाहकनौयानस्य(ऐ एन् एस् विराटस्य) स्थाने कार्यकर्तुं अनुमतिम् अलभत् । भारतसर्वकारेण ऐ एन् एस् विराटस्य सेवानिवृत्तेः समयसीमा २०१०-२०१२ पर्यन्तं वर्धिता कृता[११] । कालविलम्बेन मूल्यवृद्धेः विषयः आगतः आसीत् । अयं विषयः निराकर्तुं उच्चस्तरीय कूटनीतिज्ञानां वार्ताम् अभवत् । भारतदेशेन एषा परियोजनानिमित्तं $१.२ बिलियन् अतिरिक्तधनराशिः दत्ता । एतद् मौल्यं पूर्वापेक्षया द्विगुणाधिकमासीत्[१२]
  • २००८ तमवर्षस्य जुलै मासे एवम् उद्घोषितमासीत् यत् रशियादेशेन नौयानस्य $३.४ बिलियन् पर्यन्तं मूल्यवृद्धिः कृता । नौयानस्य असमीचीना स्थितिनिमित्तम् अप्रत्याशितव्यायः कारणत्वेन वर्णितः आसीत्[१३]भारतदेशेन २००८ वर्षस्य नवेम्बर् मासाभ्यान्तरे $ ४०० मिलियन् धनराशिः प्रदत्ता आसीत् ।
  • यदि यानमिदम् भारतदेशः क्रेतुं नेच्छति तर्हि रशिया स्वसेनायां अन्तर्भावयितुम् आग्रही आसीत् । २००८ तमवर्षस्य डिसेम्बर् मासे भारतसर्वकारपक्षतः सूचना प्राप्ता यत् कैबिनेट् कमिटी अन् सिक्युरिटी(सी सी एस्) इति संस्थायाः गोष्ठ्यां सर्वोत्तमविकल्परूपेण रशियादेशीयनौयानं (एडमिरल् गोर्शकोव्) क्रेतुं निर्णयः अभूत्[१४] । भारतस्य महालेखपरीक्षकसंस्था (सी ए जी) आलोचनां कृत्वा सर्वकारं सूचीतमासीत् यत्- विक्रमादित्यनौयानम् एकं पुरातनं युद्धयानं यस्य कार्यावधिः वहुदीर्घा भवितुं नार्हति । यानमिदं मौल्यदृष्ट्या नूतनयानापेक्षया ६०% अधिकमस्ति । तथा अधिकविलम्बस्यापि आशङ्का अस्त्यैव ।
  • भारतीयनौसेनाप्रमुखः एडमिरल् सुरीशमेहता महोदयः युद्धनौयानस्य क्रयणस्य पक्षे उक्तवान्- "अहं सी ए जी संस्थाविषये टिप्पणी कर्तुं योग्यः न, परन्तु भवन्तः सर्वे रक्षाविश्लेषकाः सन्ति, किम् भवन्तः $२ बिलियन् धनेन विमानवाहकनौयानम् आनयितुं शक्नुवन्ति वा ? यदि शक्यं तर्हि अहमिदनीमेव धनादेशपत्रं (चेक्) दातुं समर्थः" ।

नौसेनाप्रमुखस्य इयं विवृत्त्या अनुमातुं शक्नुमः यत् सन्धिः $२ बिलियन् अधिका अस्तीति । "नौयानस्य क्रयणस्य पूर्वं नौसेनया विश्लेषणं न कृतमिति" सी ए जी संस्थायाः टिप्पणीविषये प्रश्ने पृष्ठे सति भारतीयनौसेनाप्रमुखस्य उत्तरम् एवमासीत्- "अहं भवन्तं सुनिश्चितं कारयितुं शक्नोमि यत्, एवन्नास्ति(विश्लेषणं न कृतमिति) विषयः । दशवर्षारभ्यः अस्माकम् अवधानम् अस्य नौयानस्योपरि अस्ति ।"

  • २००९ तमवर्षस्य जुलै-मासस्य द्वितीये दिनाङ्के रशियादेशस्य राष्ट्रपतिना उक्तं यत् त्वरया नौयानस्य अवशिष्टानि कार्याणि समाप्य २०१२ संवत्सराभ्यन्तरे भारताय दीयते । [१५] सूचनानुगुणं सेप्टेम्बर-मासस्य ७ दिनाङ्के नौयानस्य वाणिज्यविषये रशिया-भारतयोर्मध्ये अन्तिमा चर्चा जाता ।[१६]

नवीकरणम्

नौयानस्य निम्नतलस्य पुनर्नवीकरणकार्याणि २००८ तमे संवत्सरे समाप्तानि आसन् ।[१८] अनन्तरं डिसेम्बर्-मासस्य ४ दिनाङ्के यानस्य पुनः जलावतरणम् कृतम् ।[१९] २०१० वर्षाभ्यन्तरे नौयानस्य यन्त्राणि सर्वाणि स्थापितानि आसन् ।[२०]


टिप्पणी

फलकम्:Reflist

बाह्यसम्पर्काः

  1. 2012 पर्यन्तं रशिया ऐ एन् एस्(INS) विक्रमादित्यस्य (एडम् गोर्शकोव्) अर्पणे विलम्बः कृतः
  2. २.० २.१ फलकम्:Cite web
  3. ३.० ३.१ फलकम्:Cite web
  4. ४.० ४.१ उद्धरणे दोषः : अमान्या <ref> शृङ्खला; nbt15112013-tkdnv इत्यस्य आधारः अज्ञातः
  5. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; thehindu1 इत्यस्य आधारः अज्ञातः
  6. INS Vikramaditya undergoing sea trials
  7. http://www.strategypage.com/htmw/htnavai/articles/20100603.aspx
  8. IndiaDefence.com - व्हाट्स् हॉट्? साम्प्रतिकघटनानां विश्लेषणम् - एयरो इण्डिया २००५ - नौसेनायाः इच्छा - एकः ऐ डी सी (IDC) रिपोर्ट्
  9. भारतीयनौसेनया नौर्थ्रोप् एडवान्स्ड् हॉक् ऐव्यवस्था निराकृता
  10. डिफेन्स् टॉक् - परिवर्तमानस्य गोर्शकोव् यानस्य चित्रम्
  11. डिफेन्स् इन्डस्ट्री डैली ऐ एन् एस्(INS) विक्रमादित्य हिट्स् डिले , कॉस्ट् इन्क्रिसेज़्
  12. मूल्यवृद्धिः विषये एन् डी टीवी (NDTV) न्यूज़् क्लिप्
  13. यदि भारतदेशः $२ बिलियन् दातुं सिद्धः चेत् रशियादेशीय-विमानवाहकनौयानस्य प्राप्तिर्भविष्यति
  14. कमिटी अन् सिक्युरिटी(सी सी एस्)
  15. रशियादेशस्य राष्ट्रपतेः मन्तव्यः विक्रमादित्यविषये
  16. विक्रमादित्यविषये रशिया-भारतयोर्मध्ये सहमतिः
  17. फलकम्:Cite web
  18. गोर्शकोव्-नौयानस्य निम्नतलस्य नवीकरणं समाप्तम्
  19. फलकम्:Cite web
  20. http://timesofindia.indiatimes.com/India/Gorshkov-to-be-handed-over-to-India-by-Dec-12/articleshow/5995560.cms