वाशिममण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

सञ्चिका:250px-ShriNarasimhaSaraswati.jpg
नृसिंहसरस्वती-स्वामी
सञ्चिका:Poharaadevi.jpg
पोहरादेवी-मन्दिरम्

वाशिममण्डलं (फलकम्:Lang-mr, फलकम्:Lang-en) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं वाशिम इत्येतन्नगरम् ।

भौगोलिकम्

वाशिममण्डलस्य विस्तारः ५,१५० च.कि.मी मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि यवतमाळमण्डलं, पश्चिमदिशि बुलढाणामण्डलम्, उत्तरदिशि अकोलामण्डलं, दक्षिणदिशि हिङ्गोलीमण्डलम् अस्ति । अस्मिन् मण्डले ७५० मि.मी.मितः वार्षिकवृष्टिपातः भवति । अत्र मुख्यनदी अस्ति अरुणावती ।

इतिहासः

महाभारते, वात्स्यायन-कामसूत्रे, पद्मपुराणे, काव्यमीमांसायां, वत्सगुल्ममाहात्म्ये च 'वाशिम' इत्येतन्नगरं 'वत्सगुल्म'नाम्ना उपलभ्यते । वत्सऋषेः वास्तव्यात् 'वत्सगुल्म', तदपभ्रंशः 'वाशिम' इति । वाकाटक-राष्ट्रकूट-यादवराजानां आधिपत्यम् अत्रासीत् । अष्टादशे शतके वस्त्रोद्योगे वाशिम बहुविख्यातमासीत् । पुरा वाशिमपरिसरः बेरार-प्रान्ते आसीत्, यदा बेरार-प्रान्तात् अकोलामण्डलस्य स्थापना कृता तदा वाशिमपरिसरः अकोलामण्डले समाविष्टः । अनन्तरम् अकोलामण्डलात् वाशिममण्डलं पृथक्कृतम् ।

जनसङ्ख्या

वाशिममण्डलस्य जनसङ्ख्या(२०११) ११,९७,१६० अस्ति । अस्मिन् ६,२०,३०२ पुरुषाः, ५,७६,८५८ महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी.मिते क्षेत्रे २४४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. २४४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.२३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२६ अस्ति । अत्र साक्षरता ८३.२५ % अस्ति । ८२.३४% जना ग्रामेषु निवसन्ति, १७.६६% जनाः नगरेषु निवसन्ति ।

कृषिः उद्यमाश्च

मण्डलेऽस्मिन् ग्रामेषु कृषिः प्रमुखोपजीविकासाधनम् । 'सोयाबीन', गोधूमः, यवनालः (ज्वारी), 'बाजरी', 'तूर', कार्पासः च प्रमुखकृष्युत्पादनानि सन्ति । प्रमुखनगरेषु तैलनिर्माणोद्यमाः, वस्त्रनिर्माणार्थं हस्तोद्यमाः च सन्ति ।

उपमण्डलानि

अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि-

  1. कारञ्जा
  2. मङ्गरुळपीर
  3. मालेगाव
  4. रिसोड
  5. वाशिम
  6. मानोरा

लोकजीवनम्

मण्डलेऽस्मिन् बहूनि तीर्थस्थलानि सन्ति इत्यतः जनाः धार्मिकाचरणे निमग्नाः । स्थानिकोत्सवेषु, यात्रासु च जनाः सहभागिनः भवन्ति । जनानां मध्यमस्तरीयजीवनशैली वर्तते ।

वीक्षणीयस्थलानि

मण्डलेऽस्मिन् बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • बालाजी-मन्दिरम्
  • श्रीक्षेत्रं पोहरादेवी
  • पद्मतीर्थ-शिवमन्दिरम्
  • अन्तरिक्ष-पार्श्वनाथ-जैनमन्दिरम्
  • नृसिंहसरस्वती-स्वामी-मन्दिरम्
  • सखाराम-महाराज-मन्दिरम्
  • चामुण्डादेवीमन्दिरम्

बाह्यानुबन्धाः


फलकम्:Geographic location

फलकम्:महाराष्ट्रराज्यस्य मण्डलानि

"https://sa.bharatpedia.org/index.php?title=वाशिममण्डलम्&oldid=6134" इत्यस्माद् प्रतिप्राप्तम्