वसन्ततिलकाछन्दः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


लक्षणम्

उक्ता वसन्ततिलका तभजा जगौ गः

यस्मिन् वृत्ते चतुर्दशाक्षराणि भवन्ति तथा च यत्र प्रत्येकम् अपि पादे यदि क्रमेण एकः तगणः¸

एकः भगणः द्वौ जगणौ गुरुद्वयञ्च भवति तर्हि तदेव वृत्तं वसन्ततिलकावृत्तम् इति कथ्यते।

उदाहरणम्

पापान्निवारयति योजयते हिताय गुह्यं निगूहति गुणान् प्रकटीकरोति।
आपद्गतं च न जहाति ददाति काले सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः।।

अर्थः

पापात् निवारयति, हिताय योजयते, गुह्यं निगूहति, गुणान् प्रकटीकरोति, विपत्तिकाले न त्यजति,

अवसरे आगते सति ददात्यपि, एतानि एव सन्मित्रस्य लक्षणानि सन्ति इति सज्जनाः प्रवदन्ति ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=वसन्ततिलकाछन्दः&oldid=8514" इत्यस्माद् प्रतिप्राप्तम्