रजस्तमश्चाभिभूय...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥ १० ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य दशमः(१०) श्लोकः ।

पदच्छेदः

रजः तमः च अभिभूय सत्त्वं भवति भारत रजः सत्त्वं तमः च एव तमः सत्त्वं रजः तथा ॥ १० ॥

अन्वयः

भारत ! रजः तमः च अभिभूय सत्त्वं भवति । रजः सत्त्वं च अभिभूय तमः एव (भवति) तथा तमः सत्त्वम् अभिभूय रजः (भवति) ।

शब्दार्थः

अभिभूय = अतिक्रम्य ।

अर्थः

अर्जुन ! यद्यपि एतेषां त्रयाणां गुणानां बुद्धौ समानत्वं तथापि क्वचित् सत्त्वम् अन्यत् गुणद्वयम् अधःकृत्य स्वकार्यं सुखं जनयति । क्वचित् रजः अन्यत् गुणद्वयम् अधःकृत्य स्वकार्यम् दुःखम् । क्वचित् च तमः अन्यत् गुणद्वयम् अधःकृत्य स्वकार्यम् अविवेकम् । अत एवेदं प्राणिषु तारतम्यम् ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=रजस्तमश्चाभिभूय...&oldid=1802" इत्यस्माद् प्रतिप्राप्तम्