रजसि प्रलयं गत्वा...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ।
तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ १५ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य पञ्चदशः(१५) श्लोकः ।

पदच्छेदः

रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते तथा प्रलीनः तमसि मूढयोनिषु जायते ॥ १५ ॥

अन्वयः

रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते तथा तमसि प्रलीनः मूढयोनिषु जायते ।

शब्दार्थः

रजसि = रजोगुणे
प्रलयम् = मृत्युम्
कर्मसङ्गिषु = कर्मासक्तेषु
जायते = उद्भवति
तमसि = तमोगुणे
प्रलीनः = मृतः
मूढयोनिषु = निकृष्टयोनिषु ।

अर्थः

रजोगुणे प्रवृद्धे म्रियमाणः पुरुषः कर्मासक्तेषु मनुष्येषु जायते । तमोगुणे प्रवृद्धे म्रियमाणः तु विवेकरहितेषु पशुप्रभृतिषु जन्म प्राप्नोति ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=रजसि_प्रलयं_गत्वा...&oldid=10399" इत्यस्माद् प्रतिप्राप्तम्