रङ्गनाथशर्मा

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

महामहोपाध्यायः विद्वान् डा. एन् रङ्गनाथशर्मा (जननम् १९१६, मरणम्२०१४) संस्कृते कन्नडे च महापण्डितः आसीत्। उभयोः भाषयोः व्याकरणे अस्य महती गतिः आसीत्। एतेन नैके ग्रन्थाः विरचिताः अनूदिताः च।

जीवनम्

विद्वान् रङ्गनाथशर्मा कर्णाटकराज्यस्य शिवमोग्गमण्डलस्य सोरबउपमण्डले नडहळ्ळि इति ग्रामे तिम्म्प्प-जानकम्मदम्पत्योः पुत्रत्वेन जन्म अलभत।[१][२] तस्य प्राथमिकशिक्षणं नडहळ्ळिग्रामे माध्यमिकशिक्षणं च सोरबनगरे प्रावर्तत। पिता पितृव्यश्च संस्कृतपण्डितौ आस्ताम्। एतेन रङ्गनाथशर्मा प्राभावितः। दारिद्र्ये सत्यपि रङ्गनाथशर्मणः मनः पठने संलग्नम् आसीत्। यद्यपि आङ्लाध्ययने रङ्गनाथशर्मणः रुचिः आसीत्, तथापि दारिद्र्यवशात् आङ्गलशिक्षणं न प्राप्तम्। अतः जीविकानिर्वहणार्थं कन्नडं संस्कृतं च अपठत् रङ्गनाथशर्मा। अगडिग्रामे''‘आनन्दवनाश्रमे’'' प्रवेशः प्राप्तः। परन्तु तत्रत्यवातावरणं प्रतिकूलम् आसीत्। अतः ग्रामं प्रत्यागत्य केळदि संस्कृतपाठशालां प्रविष्टवान्। काव्यपरीक्षाम् उत्तीर्य बेङ्गलूरुनगरे जयचामराजेन्द्रपाठशालायां प्रवेशः कृतः। तत्र एकादशवर्षाणि यावत् अलङ्कारशास्त्रं व्याकरणशास्त्रं च अधीतवान्। वारान्नं भिक्षान्नं स्वयम्पाकादिभिः उदरपोषणं कुर्वन् निष्ठया अध्ययनम् अकरोत्। कदाचित् भोजनपर्णक्रयणे धनाभावात् भूमावेव अभुङ्क्त। १९४१तमे वर्षे कमलाक्षम्मा इति कन्याम् ऊढवान्। कमलाक्षम्मा अनारोग्यकारणतः १९७३तमे वर्षे दिवङ्गता। रङ्गनाथशर्मणः द्वौ पुत्रौ द्वे पुत्री च अभूताम्। रङ्गनाथशर्मणः कन्नडस्य प्रसिद्धलेखकस्य डि.वि.जिवर्यस्य च मैत्री गाढा आसीत्।

अध्यापनम्

रङ्गनाथशर्मा प्रौढशालाअध्यापकत्वेन कतिचन वर्षाणि कार्यम् अकरोत्। ततः बेलूरुनगरस्य संस्कृतपाठशालायां कञ्चन कालं यावत् कार्यं कृत्वा १९४८तमे वर्षे बेङ्गलूरुनगरे जयचामराजेन्द्रपाठशालायाम् अध्यापनम् आरब्धवान्। १९७६ तमे वर्षे निवृत्तः अभवत्।[२][३][४] [५]

रचनाः

संस्कृतरचनाः [१]

  • बाहुबलिविजयम् (ऐतिहासनाटकम्, १९८०)
  • एकचक्रम् (पौराणिकनाटकम्, १९९०)
  • गुरुपारमित्रचरितम् (१९६९)
  • गोमटेश्वरसुप्रभातम् (१९८१)
  • गोम्मटेशपञ्चकम्

कन्नडरचनाः [१]

  • भाषान्तरपथ (१९४९)
  • लौकिकन्यायगळु (१९५९)
  • होसगन्नडव्याकरण
  • वल्मीकि मुनिगळ हास्यप्रवृत्ति
  • वरदहळ्ळि श्रीधरस्वामिगळु
  • श्रीकामचन्द्र (१९८२) - भास, कालिदास ಮತ್ತು भवभूति कविगळ प्रभेयल्लि
  • सूक्तिव्याप्ति (१९९२)
  • उपनिषत्तिन कथेगळु (१९५९)

अनूदिताः रचनाः

  • वाल्मीकिरामायण
  • अमरकोषः (१९७०)
  • विदुरनीति (१९७२)
  • श्रीमद्भागवतद हत्तनेय स्कन्ध (१९७८)
  • श्रीविष्णुपुराण (१९५९)
  • व्यासतात्पर्यनिर्णयः (१९८६)
  • तोटकाचार्यर श्रुतिसार समुद्धरण
  • वाक्यपदीय ब्रह्मकाण्ड
  • विद्यारण्यर पञ्चदशी

सम्पादिताः रचनाः

  • भगवन्नामावलिः
  • सुभाषितमञ्जरी
  • श्रीचामराजोक्तिविलासरामायणम्


रङ्गनाथशर्मभिः संस्कृतभाषया १०, कन्नडभाषया २२ ग्रन्थाः च विरचिताः १७ ग्रन्थाश्च अनूदिताः। एते रङ्गनाथशर्माणः राष्ट्रपुरस्कारभाजः विद्यन्ते। कर्णाटकसंस्कृतविश्वविद्यालयेन डाक्टरेट् उपाधिना च विभूषिताः।

वैशिष्ट्यम्

रङ्गनाथशर्माणः देशस्य पण्डितेषु अग्रमान्यः। संस्कृते, कन्नडे च एतेषां पाण्डित्यं महत् आसीत्। व्याकरणे, अलङ्कारे, वेदान्ते च कृतभूरिपरिश्रमाः। कन्नडसाहित्यपरिषदः ग्रन्थसम्पादनसमितेः अध्यक्षरूपेण अनेकेषां ग्रन्थानां प्रकाशने रङ्गनाथशर्मणां योगदानं महद् वर्तते। पञ्चमे अखिलकर्णाटकसंस्कृतसाहित्यसम्मेलनस्य च अध्यक्षाः आसन्।

पुरस्काराः

  • राज्योत्सवपुरस्कारः[३]
  • राष्ट्रप्रशस्तिः[२]
  • डिविजिप्रशस्तिः [२][४]
  • महामहोपाध्यायोपाधिः[६][२]
  • गौरवडाक्टरेट् पुरस्कारः[७][२][३][४]
  • पुस्तकपुरस्कारः[८]
  • चुञ्चश्रीपुरस्कारः
  • राष्ट्रपतिपुरस्कारः

वार्धक्येऽपि कार्यशीलता

९८ तमे वयसि अपि रङ्गनाथशर्माणः क्रियाशीलाः आसन्। नवतितमे वयसि अपि विद्वत्पूर्णं भाषणम् उल्लासेन कुर्वन्ति स्म।


मृत्युः

रङ्गनाथशर्मणां मृत्युः ९८ तमे वयसि २०१४ वर्षस्य जनवरी २५ तमे दिनाङ्के मैसूरुनगरे अभवत्।[९]

विषयाः

अधिकपठनाय

उल्लेखाः

फलकम्:Reflist

बाह्यसम्पर्काः

"https://sa.bharatpedia.org/index.php?title=रङ्गनाथशर्मा&oldid=3920" इत्यस्माद् प्रतिप्राप्तम्