य एनं वेत्ति हन्तारं...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement य एनं वेत्ति हन्तारम् (फलकम्:IPA audio link) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अज्ञानिनां परिभाषां वदति । पूर्वस्मिन् श्लोके भगवान् शरीरिणः अविनाशित्वम् उक्त्वा अत्र ये शरीरिणः अविनाशित्वं न जानन्ति, तान् अज्ञानित्वेन (मूढत्वेन) उपस्थापयति । सः कथयति यत्, यः मनुष्यः एनम् अविनाशिनं शरीरिणं हन्यमानत्वेन पश्यति, यः मनुष्यः एनं मृतं च मन्यते, तौ उभौ तं न जानीतः । यतो हि स न कदापि म्रियते, न मारयति च इति ।

श्लोकः

गीतोपदेशः
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ १९ ॥

पदच्छेदः

यः, एनम्, वेत्ति, हन्तारम्, यः, च, एनम्, मन्यते, हतम् । उभौ, तौ, न, विजानीतः, न, अयम्, हन्ति, न, हन्यते ॥

अन्वयः

यः एनं हन्तारं वेत्ति, यः च एनं हतं मन्यते तौ उभौ न विजानीतः । (यतः) अयं न हन्ति, न हन्यते ।

शब्दार्थः

अन्वयः विवरणम् सरलसंस्कृतम्
यः यत्-त.सर्व.पुं.प्र.एक. यः जनः
एनम् एतद्.द.सर्व.पुं.द्वि.एक. आत्मानम्
हन्तारं हन्तृ-ऋ.पुं.द्वि.एक. मारकः
वेत्ति √विद ज्ञाने-पर.कर्तरि, लट्.प्रपु.एक. इति जानाति
यः यत्-त.सर्व.पुं.प्र.एक. यः
अव्ययम् अपि
एनम् एतद्.द.सर्व.पुं.द्वि.एक. आत्मानम्
हतं अ.पुं.द्वि.एक. मारितः
मन्यते √मन ज्ञाने-आत्म.कर्मणि, लट्.प्रपु.एक. इति जानाति
तौ तद्-द.सर्व.पुं.प्र.द्वि. तौ
उभौ अभ.अ.सर्व.पुं.प्र.एक. द्वौ अपि
अव्ययम् नैव
विजानीतः वि+√ज्ञा अवबोधने-पर.कर्तरि, लट्.प्रपु.द्वि. अवगच्छतः
अयम् इदम्-म.सर्व.पुं.प्र.एक. आत्मा
अव्ययम्
हन्ति √हन हिंसागत्योः-पर.कर्तरि, लट्.प्रपु.एक. मारयति
अव्ययम् नापि
हन्यते √हन हिंसागत्योः-कर्मणि, लट्.प्रपु.एक. मारितो भवति ।

व्याकरणम्

सन्धिः

  1. य एनम् = यः + एनम् – विसर्गसन्धिः (लोपः)
  2. यश्च = यः + च – विसर्गसन्धिः (सकारः) श्चुत्वं च
  3. चैनम् = च – एनम् – वृद्धिसन्धिः
  4. विजानीतो न = विजानीतः + न – विसर्गसन्धिः (सकारः), रेफः, उकारः, गुणः
  5. नायम् = न + अयम् - सवर्णदीर्घसन्धिः

कृदन्तः

  1. हन्तारम् = हन् + तृच् (कर्तरि), तम् ।
  2. हतम् = हन् + क्त (कर्मणि), तम् ।

अर्थः

यः जनः आत्मा कञ्चित् पुरुषं मारयति’ इति जानाति यश्च जनः आत्मा केनापि पुरुषेण मार्यते इति जानाति तौ द्वौ अपि वस्तुतः अज्ञानिनौ । यतः आत्मा कञ्चित् न हन्ति, न वा केनापि हन्यते ।

भावार्थः [१]

'य एनं वेत्ति हन्तारम्' – यः एनं शरीरिणं हन्यमानं मन्यते, सः तत्त्वं न जानाति । यतो हि शरीरिणे कर्तृत्वमेव नास्ति । यथा कश्चन चतुरतमः शिल्पकारः शिल्पसाधनं विना कार्यं कर्तुं न प्रभवति, तथैव एषः शरीरी शरीरं विना किमपि कार्यं कर्तुं न प्रभवति । अतः उक्तञ्च, सर्वधाः क्रियाः प्रकृत्या एव भवन्ति इति यः मनुष्यः अनुभवति, सः मनुष्यः शरीरिणः अकर्तृत्वम् अनुभवति [२] इति । तात्पर्यम् अस्ति यत्, शरीरिणि कर्तृत्वं नास्ति, परन्तु शरीरेण सह संसर्गे सति सः शरीरेण जायमानासु क्रियासु स्वयं कर्ता इति अध्यारोपणं करोति । यदि शरीरी शरीरेण सह सम्बन्धं न स्थापयति, तर्हि सः न कस्याः अपि क्रियायाः कर्ता भवति ।

'यश्चैनं मन्यते हतम्' – यः तं मृतं मन्यते, सोऽपि शरीरिणः यथार्थं नावगच्छति । यथा एषः शरीरी न म्रियते, तथैव सः अन्यं न मारयति । यतो हि तस्मिन् कदापि कापि विकृतिः नोत्पद्यते । यस्मिन् विकृतिः, परिवर्तनं वा भवति अर्थात् उत्पत्तिविनाशशीलता यस्मिन् भवति, सः म्रियते ।

'उभौ तौ न विजानीतः नायं हन्ति न हन्यते' – तौ उभौ न जानीतः अर्थात् यः शरीरिणं हन्यमानत्वेन पश्यति, यश्च तं मृतं पश्यति, तौ उभौ शरीरिणम् (आत्मानं) योग्यतया न जानीतः इति । अत्र पश्नः समुदेति यत्, यः शरीरिणं हन्यमानं, मृतं च न मन्यमानः, तस्य ज्ञानं तु सम्यग् अस्ति खलु ? एतस्य उत्तरम् अस्ति यत्, सोऽपि शरीरिणः वास्तविकस्वरूपं न जानाति । यतो हि शरीरी वास्तव्येन तथा नास्ति । तस्य नाशः न भवति, स च अन्यस्य नाशं न करोति । सः निर्विकारी नित्यत्वेन अपरिवर्तितः तिष्ठति । अतः तस्य शरीरिणः कृते शोकः न करणीयः । अर्जुनस्य सम्मुखं युद्धप्रसङ्गः समुत्पन्नः अत एवात्र मरणं, मारणम् इत्येतयोः क्रिययोः उदाहरणत्वेन उपस्थानम् अभवत् । अन्यथा स आत्मा क्रियातीतः अस्ति ।

शाङ्करभाष्यम् [३]

शोकमोहादिसंसारकारणनिवृत्त्यर्थं गीताशास्त्रम् न प्रवर्तकम् इत्येतस्यार्थस्य साक्षिभूते ऋचौ आनिनाय भगवान्। यत्तु मन्यसे युद्धे भीष्मादयो मया हन्यन्ते अहमेव तेषां हन्ता इति एषा बुद्धिः मृषैव ते। कथम् -

य एनं  प्रकृतं देहिनं  वेत्ति  विजानाति  हन्तारं  हननक्रियायाः कर्तारं  यश्च एनम्  अन्यो  मन्यते हतं  देहहननेन हतः अहम् इति हननक्रियायाः कर्मभूतम्  तौ उभौ न विजानीतः  न ज्ञातवन्तौ अविवेकेन आत्मानम्। हन्ता अहम् हतः अस्मि अहम् इति देहहननेन आत्मानमहंप्रत्ययविषयं यौ विजानीतः तौ आत्मस्वरूपानभिज्ञौ इत्यर्थः। यस्मात् न  अयम्  आत्मा  हन्ति  न हननक्रियायाः कर्ता भवति    च  हन्यते  न च कर्म भवतीत्यर्थः अविक्रियत्वात्।।

भाष्यार्थः

गीताशास्त्रं संसारस्य कारणभूतशोकादीनां निवर्तकं शास्त्रं, न तु प्रवर्तकम् । एतदर्थके भगवान् द्वे ऋचौ उपस्थापयति । यदि त्वं चिन्तयसि यत्, युद्धे भीष्मादीन् अहं मारयिष्ये, तेषां हन्ता अहमेव इति, तर्हि ते बुद्धिः सर्वथा मिथ्या अस्ति । कथम् ?

यस्य वर्णनम् उपरि कृतं, तम् आत्मानं यः हन्यमानं मन्यते अर्थात् हननक्रियायाः कर्तृत्वेन, अपरः कश्चन तम् आत्मानं देहेन सह नष्टं पश्यति अर्थात् हननक्रियायाः कर्मत्वेन, तौ उभौ एव अहम्प्रत्ययस्य विषयभूतम् आत्मानं अविवेकत्वाद् न जानीतः । अत्राभिप्रायः अस्ति यत्, यौ शरीरस्य मरणे सति क्रमेण 'अहं मारितवान्', 'अहं मृतः' इति जानीतः, तौ उभौ आत्मस्वरूपाद् अनभिज्ञौ स्तः । यतो हि एषः आत्मा विकाररहितत्वाद्, न तु मारयति, न म्रियते । अर्थात् सः आत्मा हननक्रियाः न तु कर्ता अस्ति, न च कर्म ।

रामानुजभाष्यम्

एनम्  उक्तस्वभावम् आत्मानं प्रति हन्तारं  हननहेतुकम् अपि  यो  मन्यते  यः च एनं  केन अपि हेतुना  हतं मन्यते उभौ तौ न विजानीतः।  उक्तैः हेतुभिः अस्य नित्यत्वाद् एव  अयं  हननहेतुः न भवति अत एव च अयम् आत्मा  न हन्यते।  हन्तिधातुः अपि आत्मकर्मकःशरीरवियोगकरणवाची।न हिंस्यात् सर्वा भूतानिब्राह्मणो न हन्तव्यः (क0 स्मृ0 8।2) इत्यादीनि अपि शास्त्राणि अविहितशरीरवियोगकरणविषयाणि।

भाष्यार्थः

उपर्युक्तैः स्वभावैः युक्तम् आत्मानं यः पुरुषः हननहेतुत्वेन अर्थात् अन्यस्य हननकारणं मन्यते, यश्च तम् आत्मानं केनापि हेतुना मृतं मन्यते, तौ उभौ तम् आत्मानं न जानीतः । पूर्वोक्तकारणत्वाद् आत्मा नित्यः । अत एव सः न तु हननहेतुः भवति, अपि च न केनापि हन्यते । यद्यपि अत्र 'हन्' इत्यस्य धातोः कर्म आत्मा अस्ति, तथापि तस्य अर्थः शरीरात् आत्मनः वियोगः इत्येव (आत्मनः नाशो न ) । 'सर्वेषां प्राणिनां हिंसायाः त्यागं कुर्यासुः', 'ब्राह्मणः अवध्यः अस्ति' [४] इत्यादीनि शास्त्रवाक्यानि अपि अविहितरूपेण शरीरवियोगस्यैव प्रतिषेधनं (समर्थनं) कुर्वन्ति ।


फलकम्:गीताश्लोकक्रमः

फलकम्:साङ्ख्ययोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. गीता, अ. १३, श्लो. २९
  3. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  4. न हिंस्यात् सर्वा भूतानि, ब्राह्मणो न हन्तव्यः, क.स्मृ., ८/२
"https://sa.bharatpedia.org/index.php?title=य_एनं_वेत्ति_हन्तारं...&oldid=3664" इत्यस्माद् प्रतिप्राप्तम्