योऽन्तःसुखोऽन्तरारामः...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः ।
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ २४ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य चतुर्विंशतितमः (२४) श्लोकः ।

पदच्छेदः

यः अन्तः सुखः अन्तरारामः तथा अन्तर्ज्योतिः एव यः स योगी ब्रह्मनिर्वाणं ब्रह्मभूतः अधिगच्छति ॥ २४ ॥

अन्वयः

यः अन्तःसुखः अन्तरारामः तथा यः एव अन्तर्ज्योतिः सः योगी ब्रह्मभूतः ब्रह्मनिर्वाणम् अधिगच्छति।

शब्दार्थः

यः = यः पुरुषः
अन्तःसुखः = अत्मनि एव सुखवान्
अन्तरारामः = आत्मनि एव रममाणः
तथा यः एव = एवं यः जनः
अन्तर्ज्योतिः = आत्मनि एव ज्ञानवान्
सः = सः जनः
ब्रह्मभूतः = ब्रह्मणा एकीभावं प्राप्तवान्
योगी = योगी
ब्रह्मनिर्वाणम् = ब्रह्मणि लयम् (मोक्षम्)
अधिगच्छति = प्राप्नोति ।

अर्थः

यः आत्मन्येव सुखमनुभवति न विषयसम्बन्धि, यः आत्मन्येव विहरति, न तु विषयेषु, यः आत्मज्ञानेन ज्ञानवान् न विषयज्ञानेन तादृशः योगी ब्रह्माभिन्नः सन् ब्रह्मण्येव लयं गच्छति ।

शाङ्करदर्शनम्

कथंभूतश्च ब्रह्मणि स्थितो ब्रह्म प्राप्नोतात्याह-योऽन्तसुखोऽन्तरात्मनि सुखं यस्य सोऽन्तःसुखस्तथान्तरेवात्मन्याराम आक्रीडा यस्य सोऽन्तरारामस्तथैवान्तरात्मैवज्योतिः प्रकाशो यस्य सोऽन्तर्ज्योतिरेव। य ईदृशः स योगी ब्रह्मनिर्वाणं ब्रह्मणि निर्वृतिं मोक्षमिह जीवन्नेव ब्रह्मभूतः सन्नधिगच्छति प्राप्नोति ।।24।।

फलकम्:गीताश्लोकक्रमः

फलकम्:कर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु