योत्स्यमानानवेक्षेऽहं...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

फलकम्:Underlinked

गीतोपदेशः
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ २३ ॥

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य त्रयोविंशतितमः (२३) श्लोकः ।

पदच्छेदः

योत्स्यमानान्, अवेक्षे, अहम्, ये, एते, अत्र, समागताः । धार्तराष्ट्रस्य, दुर्बुद्धेः, युद्धे, प्रियचिकीर्षवः ॥

अन्वयः

दुर्बुद्धेः धार्तराष्ट्रस्य युद्धे प्रियचिकीर्षवः ये एते अत्र समागताः (तान्) अहं योत्स्यमानान् अवेक्षे ।

शब्दार्थः

दुर्बुद्धेः = दुष्टमतेः
धार्तराष्ट्रस्य = दुर्योधनस्य
युद्धे = रणे
प्रियचिकीर्षवः = प्रियं कर्तुम् इच्छवः
ये एते = ये इमे
अत्र = अस्मिन् स्थाने
समागताः = आयाताः
अहम् = अहम्
योत्स्यमानान् = युद्धं करिष्यमाणान्
अवेक्षे = पश्यामि ।

अर्थः

युद्धं कर्तुं अत्र ये आगताः सन्ति ते सर्वे युद्धे दुर्बुद्धेः दुर्योधनस्य प्रियं कर्तुमेव उपस्थिताः सन्ति । तान् योद्धुम् इच्छतः योधान् अहं पश्यामि ।

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in

फलकम्:अर्जुनविषादयोगः

सम्बद्धाः लेखाः