योगसंन्यस्तकर्माणं...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् ।
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ ४१ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य एकचत्वारिंश्त्तमः (४१) श्लोकः ।

पदच्छेदः

योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ ४१ ॥

अन्वयः

धनञ्जय ! योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् आत्मवन्तं कर्माणि न निबध्नन्ति ।

शब्दार्थः

धनञ्जय = अर्जुन !
योगसन्न्यस्तकर्माणम् = आत्मज्ञानसंत्यक्तकर्माणम्
ज्ञानसञ्छिन्नसंशयम् = आत्मज्ञानविनष्टसन्देहम्
आत्मवन्तम् = आत्मनिम्
कर्माणि = यज्ञादीनि
न निबध्नन्ति = न लिम्पन्ति ।

अर्थः

धनञ्जय ! यः सर्वाणि कर्माणि समत्वबुद्धियोगेन भगवदर्पितानि करोति, यस्य च संशयाः आत्मज्ञानप्राप्त्या नष्टाः सन्ति तं जितेन्द्रियं पुरुषं कर्माणि न लिम्पन्ति ।

शाङ्करभाष्यम्

कस्मात्-योगेति। योगसंन्यस्तकर्माणं परमार्थदर्शनलक्षणेन योगेन संन्यस्तानि कर्माणि येन परमार्थदर्शिना धर्माधर्माख्यानि तं योगसंन्यस्तकर्माणम्। कथं योगसंन्यस्तकर्मेत्याहज्ञानेनात्मेश्वरकत्वदर्शनलक्षणेन संच्छिन्नः संशयो यस्य स ज्ञानसंच्छिन्नसंशयः। य एवं योगसंन्यस्तकर्मा तमात्मवन्तमप्रमत्तं गुणचेष्टारूपेण दृष्टानि कर्माणिन निबन्धन्त्यनिष्टादिरूपं फलं नारभन्ते हे धनंजय ।।41।।

फलकम्:गीताश्लोकक्रमः

फलकम्:ज्ञानकर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=योगसंन्यस्तकर्माणं...&oldid=5004" इत्यस्माद् प्रतिप्राप्तम्