यान्ति देवव्रता देवान्...
नेविगेशन पर जाएँ
खोज पर जाएँ
श्लोकः
- यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः ।
- भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ २५ ॥
अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य पञ्चविंशतितमः(२५) श्लोकः ।
पदच्छेदः
यान्ति देवव्रताः देवान् पितॄन् यान्ति पितृव्रताः भूतानि यान्ति भूतेज्याः यान्ति मद्याजिनोः अपि माम् ॥ २५ ॥
अन्वयः
देवव्रताः देवान् यान्ति । पितृव्रताः पितॄन् यान्ति । भूतेज्याः भूतानि यान्ति । मद्याजिनः अपि मां यान्ति । ।
शब्दार्थः
- देवव्रताः = देवपरायणाः
- देवान् = तत्तद्देवविशेषान्
- यान्ति = प्राप्नुवन्ति
- पितृव्रताः =पितृपरायणाः
- पितॄन् = पितृदेवान्
- यान्ति = प्राप्नुवन्ति
- भूतेज्याः = भूतपूजकाः
- भूतानि = विविधभूतगणान्
- यान्ति = प्राप्नुवन्ति
- मद्याजिनः अपि = मदाराधकाः च
- मां यान्ति = मां प्राप्नुवन्ति ।
अर्थः
ये देवान् पूजयन्ति ते देवलोकं गच्छन्ति । ये पितॄन् ते पितृलोकम् । ये पुनः भूतानि ते भूतलोकम् । किन्तु एषां सर्वेषामपि प्रत्यागमनम् अस्ति । मां तु ये पूजयन्ति ते मामेव यान्ति, न प्रत्यागच्छन्ति ।