यद्यप्येते न पश्यन्ति...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ ३८ ॥

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य अष्टत्रिंशत्तमः (३८) श्लोकः ।


पदच्छेदः

यद्यपि, एते, न, पश्यन्ति, लोभोपहतचेतसः । कुलक्षयकृतम्, दोषम्, मित्रद्रोहे, च, पातकम् ॥

अन्वयः

अस्य श्लोकस्य अन्वयः अग्रिमे श्लोके मिलित्वा दत्तं वर्तते । सुष्टु अवगमनाय ।

शब्दार्थः

यद्यपि = यद्यपि
एते = इमे धार्तराष्ट्राः
न = न
पश्यन्ति = वीक्षन्ते
लोभोपहतचेतसः = लोभाविष्टचित्ताः
कुलक्षयकृतम् = वंशनाशजन्यम्
दोषम् = अनर्थम्
मित्रद्रोहे च = वयस्यमारणे
पातकम् = पापम्

अर्थः

अस्य श्लोकस्य तात्पर्यमपि अग्रिमे श्लोके एव वर्तते ।

श्लोकवैशिष्ट्यम्

विषयस्य सुबोधाय मिलित्वा दत्तम् ।

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in

फलकम्:अर्जुनविषादयोगः

सम्बद्धाः लेखाः