यत्करोषि यदश्नासि...
नेविगेशन पर जाएँ
खोज पर जाएँ
श्लोकः
- यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
- यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ २७ ॥
अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य सप्तविंशतितमः(२७) श्लोकः ।
पदच्छेदः
यत् करोषि यत् अश्नासि यत् जुहोषि ददासि यत् यत् तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणम् ॥ २७ ॥
अन्वयः
कौन्तेय ! यत् करोषि यत् अश्नासि यत् जुहोषि यत् ददासि यत् तपस्यसि तत् मदर्पणं कुरुष्व ।
शब्दार्थः
- कौन्तेय = कुन्तीपुत्र
- यत् करोषि = यत् कर्म आचरसि
- यत् अश्नासि = यद्वस्तु खादसि
- यत् जुहोषि = यत् हुतं करोषि
- यत् ददासि = यद्वस्तु यच्छसि
- यत् तपस्यसि = यत् तपः चरसि
- तत् = तत् सर्वम्
- मदर्पणम् = मदर्पितम्
- कुरुष्व = विधेहि ।
अर्थः
अर्जुन ! त्वं यत् करोषि, यत् खादसि, अग्नौ यद् अर्पयसि, यत् प्रयच्छसि, यच्च तपः चरसि तत्सर्वं वासुदेवाय इति बुद्ध्या मह्यं समर्पय । एतेन ते श्रेयो भविष्यति ।