यच्चापि सर्वभूतानां...
नेविगेशन पर जाएँ
खोज पर जाएँ
श्लोकः
- यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।
- न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ ३९ ॥
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य नवत्रिंशत्तमः(३९) श्लोकः ।
पदच्छेदः
यत् च अपि सर्वभूतानां बीजं तत् अहम् अर्जुन न तत् अस्ति विना यत् स्यात् मया भूतं चराचरम् ॥ ३९ ॥
अन्वयः
अर्जुन ! सर्वभूतानां यत् बीजं तत् अपि अहम् । मया विना चराचरं भूतं यत् स्यात् तत् नास्ति ।
शब्दार्थः
- अर्जुन = हे अर्जुन !
- सर्वभूतानाम् = सकलभूतानाम्
- यत् बीजम् = यत् प्ररोहकारणम्
- तत् अपि अहम् = तदपि अहमेव
- मया विना = मां विना
- यत् चराचरम् = स्थावरजमम्
- यत् स्यात् = यत् भवेत्
- तत् नास्ति = तद्वस्तु न विद्यते ।
अर्थः
अर्जुन ! सर्वभूतानां यत् प्ररोहकारणम् अस्ति तत् अपि अहम् । मया विरहितं यत्किञ्चिदपि स्थावरजमं नैव भवितुम् अर्हति । तादृशं किमपि न विद्यते एव ।