मेरी कोम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


मानगते चुनेग्नैजाम् मेरी कोम्(Mary Kom)-वर्या एका प्रसिद्धा मल्लक्रीडालुः वर्तते । पञ्चवारं विश्वमल्लक्रीडोत्सवे जयं प्राप्ता एषा भारतदेशे भारतीया महिला वर्तते ।

फलकम्:Infobox sportsperson

जननं बाल्यञ्च

मेरी कोम् १९८३ तमे वर्षे मार्च्-मासे प्रथमदिनाङ्के जन्म प्राप्तवती । मणिपुरराज्यस्य चुरचञ्पुरमण्डले कङ्गथै प्रदेशे अभवत् । अस्याः मातापितरौ कृषकौ आस्थाम् । तस्याः प्राथमिकविद्याभ्यासः लोकटक-क्रिश्चन्-विद्यालयः एवं सैण्ट्-हेवियर्-विद्यालये च अभवत् । माध्यमिकविद्याभ्यासः आदिमजाति माध्यमिक-विद्यालये,इम्फाल् नगरे पठन्नासीत् । परन्तु, एषा अनुत्तीर्णा जाता । तदनन्तरं सा राष्ट्रीय-मुक्त-विद्यालये विद्याभ्यासम् अकरोत् । तस्याः इच्छा सन्नद्धशरीरक्रीडायाम् अतीव आसीत् । १९९९ तमे वर्षे मल्लक्रीडायाम् आसक्तिः आरब्धा । मणिपुरराज्यस्य मल्लक्रीडालोः क्रीडापटुः डिङ्गो सिंहः वर्तते । एनं दृष्ट्वा मेरी कोम्-वर्या प्रेरणां प्राप्तवती । अस्याः विवाहः ओल्नर् कोम्-वर्येण सह अभवत् ।

साधनानि

राष्ट्रियपदकानि
क्रीडोत्सवः स्थानम् दिनम्
प्रथमराष्ट्रियमहिला मल्लक्रीडोत्सवः चेन्नै ६-१२/०२/२००१
ईष्ट्-ओपन्-मल्लक्रीडोत्सवः वङ्गः ११-१४/१२/२००१
राष्ट्रियमहिला सार्ट्-मीट् देहली २६-३०/१२/२००१
३२ तमस्य राष्ट्रियक्रीडाः हैदराबाद् २००२

पुरस्काराः

पुरस्कारस्य नाम वर्षम्
अर्जुनपुरस्कारः (मल्लक्रीडाविभागः) २००४
पद्मश्री (क्रीडाविभागः) २००६
राजीवगान्धी खेल्-रत्न-पुरस्कारः २००७
पीपल्-आफ्-द-इयर् (लिम्का बुक्-आफ्-रेकार्ड्स्) २००७
सि एन् एन्-ऐ बि एन् रियल्-हीरो पुरस्कारम् २००८
पेप्सि एम् टी वी यूत्-ऐकान् २००८
माग्निफिसेण्ट्-मेरी २००८
राजीवगान्धी खेल्-रत्न पुरस्कारः २००९
"https://sa.bharatpedia.org/index.php?title=मेरी_कोम्&oldid=3488" इत्यस्माद् प्रतिप्राप्तम्