मामुपेत्य पुनर्जन्म...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

गीतोपदेशः
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ १५ ॥

अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य पञ्चदशः (१५) श्लोकः ।

पदच्छेदः

माम् उपेत्य पुनर्जन्म दुःखालयम् अशाश्वतं न आप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ १५ ॥

अन्वयः

परमां संसिद्धिं गताः महात्मानः माम् उपेत्य अशाश्वतं दुःखालयं पुनर्जन्म न आप्नुवन्ति |

शब्दार्थः

परमाम् = उत्कृष्टाम्
संसिद्धिम् = सिद्धिम् (मोक्षरूपाम्)
गताः = प्राप्ता:
महात्मानः = महापुरुषा:
माम् उपेत्य = मां लब्ध्वा
अशाश्वतम् = अस्थिरम्
दुःखालयम् = दु:खस्थानम्
पुनर्जन्म = पुनर्जन्म
न आप्नुवन्ति = न लभन्ते |

अर्थः

उत्कृष्टां मोक्षरूपां सिद्धिं प्राप्तवन्त: महापुरुषा: यदा मां लभन्ते पश्चात् ते क्षणिकं दु:खस्थानमिदं पुनर्जन्म न प्राप्नुवन्ति |

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=मामुपेत्य_पुनर्जन्म...&oldid=7696" इत्यस्माद् प्रतिप्राप्तम्