महानिम्बिसस्यम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Taxobox

Melia azedarach
पुष्पिता गिरिपत्रवृक्षशाखा

अस्य सस्यशाश्त्रीयं नाम मेलिया अजेडरक् लिन्न् इति । अस्य कुटुम्बः मेलियेसि इति । अक्षद्रुवृक्षः, पर्वतवृक्षः इति अस्य नामान्तरम् । इदं महानिम्बिसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । इदं सस्यं भारतस्य सर्वेषु प्रदेशेषु वर्धते । एतत् दर्शनेन निम्बूकस्य सस्यम् इव भाति । किन्तु अस्य फलानि निम्बूकानाम् अपेक्षया महाकारकाणि भवन्ति । अतः एव अस्य नाम “महानिम्बिसस्यम्” इति उच्यते । अस्य संस्कृते “हिमद्रुम” इति अपरं नाम अपि अस्ति । अस्मिन् पीतवर्णीयः रासायनिकः अंशः अत्यन्तं क्रियाशीलः अस्ति ।

अन्यभाषासु अस्य वृक्षस्य नामानि यथा...
आङ्ग्लम् - पर्शियन् लैल्याक् ट्री । Persian lilac Tree
कन्नडम् - काडुबेवु, अरेबेवु, तुरुकुबेवु । ಕಾಡುಬೇವು, ಅರೆಬೇವು, ತುರುಕುಬೇವು |
हिन्दी - बकेन ।
तमिळु - मल्लेवेम्बु । மல்லெவெம்பு |
तेलुगु - तरकवेप । తరకవేప ।
मराठि - पेज्रि ।
मलयाळम् - वेम्बु । വെംബു |

गिरिपत्रवृक्षः भारतदेशे तु सर्वत्र व्यापृतः अस्ति । अयं १२मी.पर्यन्तम् अपि संवर्धते । कण्डस्य त्वक् मसृणा भस्मवर्णमिश्रितः कपिलवर्णः च अस्ति । द्विपिच्छरूपेण संयुक्तपत्राणि निबिडहरिद्वर्णानि भवन्ति । पत्रास्य अञ्चलः क्रकच इव भवति । पत्रस्य दीर्घता २३-२५से.मी. विस्तारः ०.५-२.५से.मी. स्तः । प्रत्येकं पत्रगुच्छे ५-१०पत्राणि भवन्ति । सुगन्धयुक्तानि मन्दनीलवर्णितानि पुष्पाणि गुच्छे भवन्ति । मर्चमासतः एप्रिल् मासाभ्यान्तरं गिरिपत्रवृक्षाः सुपुष्पिताः भवन्ति । गोलिकाकारस्य प्रत्यकं फले चत्वारि बीजानि भवन्ति । अस्य वंशप्रसारः बीजैः भवति ।

उपयोगाः

गिरिपत्रवृक्षान् आलङ्कारिकसस्यानि इव मार्गपार्श्वे उद्यानेषु च प्रारोपयन्ति । बीजतैलं रक्तशुद्धिकारं भवति । अत एतत् औषधोत्पादने प्रयोजयन्ति । मूलानि उदरक्रिमिनाशकत्वेन उपयुज्यते । सन्धिवेदना निवारणार्थमपि बीजतैलस्य उपयोगः भवति । पत्राणि कीटनिवारकानि सन्ति । विविधाः मञ्जूषाः निर्मातुम् अस्य वृक्षस्य दारुणाम् उपयोगः भवति । पालानि मेषाः अजाः प्रीत्याखादन्ति । शुष्कफलानि रुद्राक्षाः मालासु इव उपयोजयन्ति ।

इतरभाषासु अस्य महानिम्बिसस्यस्य नामानि

इदं महानिम्बिसस्यस्यम् आङ्ग्लभाषया “पर्शियन् लिलाक्” इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Melia Azedarah इति । इदं हिन्दीभाषया “बकायन्” इति, तेलुगुभाषया “कोण्डवेप” इति, तमिळ्भाषया “मलैवेम्बु” इति, बङ्गभाषया “गोरेनीम्” इति ,"महानीम्" इति च, मराठीभाषया “विलायिति नीम्” इति, कन्नडभाषया “तुरुकबेवु” अथवा “हुच्चबेवु” अथवा चेक्कबेवु” इति उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य महानिम्बिसस्यस्य प्रयोजनानि

अस्य महानिम्बिसस्यस्य रसः अपि निम्बवृक्षस्य रसः इव तिक्तः । अतः एव अस्य नाम कन्नड – मराठी – बङ्गभाषाभिः निम्बसदृशम् अस्ति ।

१. इदं महानिम्बिसस्यं क्रिमिनिवारकम् । प्रातः रिक्तोदरे अस्य रसस्य सेवनेन उदरे विद्यमानाः जन्तवः नश्यन्ति ।
२. अस्य पर्णानां स्वरसः क्रिमिनाशकः, ज्वरहरः अपि ।
३. अस्य पर्णानि, पुष्पाणि च शिरोवेदानायां लेपत्वेन उपयुज्यन्ते ।
४. अस्य पर्णानां स्वरसः चर्मरोगेषु बाह्यलेपत्वेन, औषधत्वेन चापि उपयुज्यते ।
५. कासे पीनसे च अस्य रसः मधुना सह सेवनीयः ।

फलकम्:सस्यानि

"https://sa.bharatpedia.org/index.php?title=महानिम्बिसस्यम्&oldid=7771" इत्यस्माद् प्रतिप्राप्तम्