भारतीयराष्ट्रियविधिविश्वविद्यालयः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


भारतीयविश्वविद्यानिलयस्य राष्ट्रियविधिशाला १९८६ तमे वर्षे कर्णाटकस्य एकेन अधिनियमेन स्थापिता । एषा शाला कर्णाटकस्य न्ययालयस्य, अधिवक्तृसङ्घस्य, विश्वविद्यालयस्य कर्णाटकसर्वकारस्य च साहाय्येन स्थापिता अभवत् । अस्याः स्थापनायाः कारणम् ’अत्र विधिविषये श्रेष्ठतमं शिक्षणं लभ्येत’ इति । एतदर्थं कर्णाटकसर्वकारेण बेङ्गळूरुविश्वविद्यालयस्य समीपे नागरभावी इति स्थाने (रेल्वेनिस्थानतः दशकिलोमीटर्दूरे वर्तमानं स्थानम्) २३ प्रहलपरिमितप्रदेशः प्रदत्तः अस्ति । अस्याः पार्श्वे सामाजिक-अर्थशास्त्रियसंस्था अपि अस्ति । एषा पूर्णतया आवसीया शाला अस्ति । अत्र ग्रन्थालयस्य निर्माणार्थं सुधामूर्तिवर्यया धनं दत्तम् अस्ति । यश्च तस्याः जनकस्य नाम्ना श्रीमेल्गिरिनारायणराव् स्मारकग्रन्थालयः अस्ति । १९६६ तमे वर्षे अस्याः उद्घाटनं , भारतस्य परमोच्चन्यायालयस्य न्यायाधीशः श्री लाहोटि अकरोत् । भारतस्य परमोच्चन्यायालयस्य मुख्यन्यायाधीशः अस्य कुलपतिः । अस्य प्रवेशार्थं सामान्यविधिप्रवेशपरीक्षा प्रचाल्यते । १९८८ तमे वर्षे अस्याः कार्यं आरब्धम् । अष्टादशगणाः इदानीं अत्र विद्याभ्यासं समापितवन्तः। केचन छात्राः उन्नतविद्याभ्यासार्थम् आक्सफर्ड , क्याम्ब्रिड्ज् वार्विक् हार्वर्ड्, येल् कोलम्बिया, मिचिगन् यार्क् इत्यादिविद्यालयेषु प्रविष्टाः सन्ति । बहवः न्यायवादिवृत्तिम् आरब्धवन्तः। केचन समवायं प्रविश्य देशे विदेशेष्वपि कार्यं कुर्वन्तः सन्ति । केचन संयुक्तराष्ट्रसङ्घे, विश्ववित्तकोषे, अन्ताराष्ट्रियवित्तनिधिसंस्थायां कार्यं निर्वहन्तः सन्ति । केचन अध्यापनवृत्तिं स्वीकृतवन्तः । केचन प्रशासनिकसेवां प्रविष्टवन्तः । अत्रत्यछात्राः विविधशोधकार्येषु अपि रताः। विश्वविद्यालयधनायोगस्य भारतसर्वकारस्य संयुक्तराष्ट्रसङ्घस्य वा शोधकार्ये लीनाः सन्ति ।