भागमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

भागमण्डलम्

भागमण्डलं (Bhagamandala) कर्णाटकराज्यस्य कोडगुमण्डले विद्यमानं किञ्चन क्षेत्रम् । अस्य क्षेत्रस्य भगण्डेश्वरक्षेत्रम् इति प्रसिद्धिः अस्ति । भगण्डऋषिः अत्र तपः कृत्वा भगवतः अनुग्रहं प्राप्तवान् इति श्रूयते । एतत् क्षेत्रम् दक्षिणप्रयागः इत्यपि कथयन्ति । अत्र कन्निका-कावेरी-सुज्योतिनदीनां त्रिवेणीसङ्गमः विद्यते । अत्र स्नानकरणेन पुण्यसम्पादनं भवति इति श्रद्धालूनां विश्वासः । प्रमुखदेवालयः श्री भगण्डेश्वरदेवालयः । भगण्डमुनिना स्थापितं शिवलिङ्गम् अत्र विशिष्टम् अस्ति । प्रतिवर्षं तुलामासे तुलासंक्रमणसमये अत्र उत्सवः भवति । तदा बहवः यात्रिकाः अत्र आगच्छन्ति ।

भागमण्डले कावेरी
"https://sa.bharatpedia.org/index.php?title=भागमण्डलम्&oldid=518" इत्यस्माद् प्रतिप्राप्तम्