बाह्यस्पर्शेष्वसक्तात्मा...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् ।
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥ २१ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य एकविंशतितमः (२१) श्लोकः ।

पदच्छेदः

बाह्यस्पर्शेषु असक्तात्मा विन्दति आत्मनि यत् सुखम् स ब्रह्मयोगयुक्तात्मा सुखम् अक्षयम् अश्नुते ॥ २१ ॥

अन्वयः

बाह्यस्पर्शेषु असक्तात्मा आत्मनि यत् सुखं विन्दति सः ब्रह्मयोगयुक्तात्मा अक्षयं सुखम् अश्नुते ।

शब्दार्थः

बाह्यस्पर्शेषु = बाह्यविषयेषु
असक्तात्मा = असंलग्नचित्तः
आत्मनि = स्वस्मिन्
यत् सुखम् = यम् आनन्दम्
विन्दति = प्राप्नोति
सः = सः पुरुषः
ब्रह्मयोगयुक्तात्मा = ब्रह्मसमाधिचित्तः
अक्षयम् = अविनाशि
सुखम् = आनन्दम्
अश्नुते = अनुभवति ।

अर्थः

शब्दादिषु बाह्येषु इन्द्रियविषयेषु यः अनासक्तः भवति सः आत्मनि यत् प्राप्नोति ब्रह्मयोगेन युक्तान्तःकरणः सः तदेव सुखम् अक्षयं प्राप्नोति ।

शाङ्करदर्शनम्

किंच ब्रह्मणि स्थितो बाह्यस्पर्शेषु बाह्याश्च ते स्पर्शाश्च बाह्यस्पर्शाः स्पृश्यन्त इति स्पर्शाः शब्दादयो विषयास्तेषु बाह्यस्पर्शेष्वासक्त आत्मान्तःकरणंदयस्य सोऽयमसक्तात्मा विषयेषु प्रीतिवर्जितः सन्विन्दति लभते आत्मनि यत्सुखंतद्विन्दतीत्येतत्। स ब्रह्मयोगयुक्तात्मा ब्रह्मणि योगः समाधिर्ब्रह्मयोगस्तेन ब्रह्मयोगेन युक्तः समाहितस्तस्मिन्व्यापृत आत्मान्तःकरणं यस्य स ब्रह्मयोगयुक्तात्मासुखमक्षय्यमश्रुते प्राप्नोति। तस्माद्बाह्यविषयप्रीतेः क्षणिकाया इन्द्रियाणि निवर्तयेदात्मन्यक्षयसुखार्थीत्यर्थः ।।21।।

फलकम्:गीताश्लोकक्रमः

फलकम्:कर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु