बङ्किमचन्द्र चट्टोपाध्याय

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox writer फलकम्:भारतस्य राष्ट्रियद्योतकानि बङ्किमचन्द्र चट्टोपाध्याय (फलकम्:Lang-bn Bôngkim Chôndro Chôţţopaddhae)[१](२७ जून्, १८३८[२]- ८ एप्रिल्, १८९४[३]) उनविंशतिशतकस्य एकः महान् वङ्गीय-साहित्यिकः सम्पादकश्च आसीत् । वङ्गीयगद्यस्तथा उपन्यासस्य विकाशे अस्य असीमावदानम् अस्ति । बङ्किमचन्द्रः साधारणतः वङ्गीयसाहित्येतिहासे प्रथमः औपन्यासिकरूपेण ख्यातः । परन्तु भगवद्गीतायाः व्याख्याता तथा साहित्य-समालोचकरूपेणाऽपि एषः विशेषख्यातिमानः । सः वृत्तिदृष्ट्या ब्रिटिश्-शासनस्य कर्माचारी आसीत् । बङ्किमचन्द्रः वङ्गीयभाषायाः प्रथमसाहित्यपत्रस्य वङ्गदर्शनस्य अदिसम्पादकः आसीत् । अस्य छद्मनाम आसीत् कमलाकान्त इति ।[४]

जीवनम्

जन्म वंशपरिचयश्च

बङ्किमचन्द्रस्य जन्म( २७ जून, १८३८ क्रैस्ताब्दः/१३ आषाढ १२४५ बङ्गाब्दः ) नैहाटीनगरस्य निकटस्थे कांठालपाडाग्रामे अभवत् । वस्तुतः तस्य वंशस्य आदिनिवासः हुगलिमण्डलस्य देशमुखोग्रामे आसीत् । बङ्किमचन्द्रस्य प्रपितामहः रामहरि चट्टोपाध्याय महोदयः मातामहस्य सम्पत्तिं प्राप्य कांठालपाडाग्रामं गतवान् आसीत् । अन्ततरं तत्रैव वसवासम् अकरोत् । रामहरि महोदयस्य पौत्रः आसीत् यादवचन्द्र चट्टोपाध्यायः । तस्य तृतीयपुत्रः बङ्किमचन्द्रः आसीत् । बङ्किमचन्द्रस्य श्यामाचरण तथा सञ्जीवचन्द्र इति द्वौ अग्रजौ आस्ताम् । बङ्किमस्य जन्मकाले पितुः यादवचन्द्रस्य सह-मण्डलशासकरूपेण पदोन्नतिः जाता आसीत् ।

शिक्षा

शैशवकालं बङ्किमचन्द्रः कांटापाडा”ग्रामैव यापितवान् . पञ्च वयसि कुलपुरोहितेन विश्वम्भर भट्टाचार्येण জন্মের পর तस्य विद्यारम्भः जातः . अत्यल्पैव वयसि तस्य मेधा सर्वैः ज्ञाता . बङ्किमचन्द्रस्य कणिष्ठः सहोदरः पूर्णचन्द्र चट्टोपाध्यायः लिखितवान्- “শুনিয়াছি বঙ্কিমচন্দ্র একদিনে বাংলা বর্ণমালা আয়ত্ত করিয়াছিলেন।”(भाषानुवादः- श्रुतञ्च, बङ्किमचन्द्रेण बाङ्ग्लावर्णमाला आयत्ती कृता आसीत्)[५][६]

साहित्यक्षेत्रे अवदानम्

ग्रन्थावली

उपन्यासाः

(इन्दिरा,युगलाङ्गुरीयराधाराणी त्रयी संग्रहः)

  • Rajmohan's Wife

प्रवन्धाः

  • कमलाकान्तेर दप्तर
  • लोकरहस्य
  • कृष्ण चरित्र
  • विज्ञानरहस्य
  • विविधसमालोचना
  • प्रबन्ध-पुस्तक
  • साम्य

विविधाः

  • ललिता(पुराकालिकी कथा)
  • धर्म्मतत्त्व
  • सहज रचना शिक्षा
  • श्रीमद्भगवद्गीता
  • कावितापुस्तक

(कतिचन कविताः, ललिता मानस)

सम्पादितग्रन्थाः

  • दीनबन्धुमित्रेर जीवनी
  • बाङ्गला साहित्ये प्यारीचांद मित्रेर स्थान
  • सञ्जीवचन्द्र चट्टोपाध्यायेर जीवनी

टिप्पणी

फलकम्:Reflist

बाह्यसम्पर्काः

फलकम्:Bengal Renaissance

  1. (Chattopadhyay in the original Bengali; Chattopadhyay or Chatterji as spelt by the British)
  2. History & Heritage
  3. फलकम्:Cite book
  4. मासिक कारेन्ट् वर्ल्ड्, मै २०११, पृ. ३३; परिदर्शनस्य दिनाङ्कः-२६ मै २०११ क्रैस्ताब्दः
  5. प्रबन्ध- बङ्किमचन्द्रेर् बाल्यशिक्षा, पूर्णचन्द्र चट्टोपाध्यायः ,बङ्किम-प्रसङ्ग ग्रन्थः, सुरेशचन्द्र समाजपतिना सम्पादितः
  6. बङ्किमचन्द्रजीवनी, अमित्रसूदन भट्टाचार्य, आनन्द पाब्लिशार्स् प्रैवेट् लिमिटेड् , कोलकाता ,१९९१,पृ २५ तः उद्धृतः