पूर्वगोदावरीमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox Indian Jurisdiction

पूर्वगोदावरिमण्डलम् (East Godavari district) आन्ध्रप्रदेशराज्ये स्थितमेकं मण्डलम् । अस्य मण्डलस्य केन्द्रं काकिनाड नगरम् ।

इतिहासः

आन्ध्रप्रदेशराज्ये महत्या कृषिभूम्या गवां सम्पदा च विराजमानम् अत्यन्तं सुरम्यं मण्डलं प्राग्गोदावरी । इदं १९०४ तमे वर्षे आविष्कृतम् । ततः पूर्वं [[1069. (इतिहासः) ‎पूर्वगोदावरीमण्डलम् ‎[११,०३३ अष्टकानि] मौर्य-शातवाहन-चालक्य-तुरुष्ककाकतीयादिराट्भिः पालितम् । अस्य मण्डलस्य आधिपत्यनिमित्तं फ्रेञ्च्, तथा निजां नवाबयोः मध्ये महत् युध्दं संवृत्तं चन्दुर्तिप्रान्तम् । १७६६ पश्चात् अयं प्रान्तः ब्रिटिश् ईस्टिंडियाकम्पन्याः आधीनतां गतः । आन्ध्रमहाभारतरचयितुः नन्नयकवेः जन्मस्थानमिदम् । सङ्गीतसाहित्यकलाविज्ञानक्षेत्रेषु इदम् अन्यतमं मण्डलम् । कन्दुकूरिवीरेशलिङ्गमहोदयेन हितकारी समाजः निर्मितः ।

भौगोलिकम्

भौगोलिकरीत्या अत्यन्तं विस्तृतम् इदं मण्डलम् । इतः १९०४, १९६० कालयोः कांश्चन प्रान्तान् विभज्य अन्यमण्डलेषु संयोजितवन्तः । मण्डले ३०% अरण्येन विस्तृतम् । ग्राफैट्, बाक्सैट्, जिर्कान्, मोनोजैट् इत्यादि खनिजानि उपलभ्यन्ते । राजमहेन्द्रवरे अत्यन्तं दीर्घः रेल्, रोड्मार्गः अस्याः गोदावर्याः उपरि निर्मितः । प्राक्चालक्यराजेन प्रथमभीमराजेन भीमवरं, द्राक्षारामं च निर्मितम् ।

कृषिः वाणिज्यं च

काकिनाडनौकायानकेन्द्रद्वारा तिलाः, चायपत्रं, जूटवस्तूनि, ग्राफैट् इत्यादीनां प्रेषणं भवति स्म । राजोलुकोत्तपेटप्रदेशौ नारिकेलानां मूलस्रोतसी इति प्रसिद्धौ । काकिनाडप्रान्ते गोदावरीसस्यवर्धकानां कर्मागारः, नागार्जुनसस्य संवर्धककर्मागारः च स्थापितः । राजमहेन्द्रवरे आन्ध्रपत्रनिर्माणसंस्था विज्जेश्वरप्रान्ते अनिलाधारित विद्युदुत्पादककेन्द्रं, राजमहेन्द्रवरे अङ्गारकविद्युत्केन्द्रम् इत्यादीनि बहूनि कर्मागाराणि मण्डले प्रचाल्यन्ते । गोदावरी नदी रम्पचोडवरम् इत्यस्मिन् स्थाने मण्डलं प्रविश्य धवलेश्वरप्रान्ते पथद्वये वशिष्टगौतमी, इति नामभ्यां प्रवहति । वशिष्टः पश्चिमायां दिशि प्रवहन् वैनतेयम् इति उपनाम्ना राजोलुसमीपे सागरं प्रविशति । धवलेश्वरे प्रप्रथमतया सर्. आर्थर् काटन् सेतुनिर्माणम् अस्याः नद्याः उपरि अकारयत् । ततः तस्मिन् स्थाने बारेज् निर्माणं समभूत् । माङ्गनीस्, क्लिङ्कर, मूलगन्धकम् इत्यादीनाम् अवतरणमपि भवति । मण्डले धान्यम्, इक्षुः, कदली, आम्रम्, नारिकेलम् इत्यादीनां कृषिः भवति । कृषकाणां दुकूलं, गोपोषणं, शाखादिकानां सस्यवर्धने अतीव श्रध्दा वर्तते ।

तालुकाः

बाह्यम्पर्कतन्तुः

फलकम्:Geographic location

Note: यनम्-मण्डलम्, पाण्डिच्चेरी is completely surrounded by East Godavari district.
"https://sa.bharatpedia.org/index.php?title=पूर्वगोदावरीमण्डलम्&oldid=4500" इत्यस्माद् प्रतिप्राप्तम्