पि.वि सिन्धुः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox badminton player

पुर्सला वेङ्कटसिन्धुः (जननम्- ५ जुलै १९९५) ब्याड्मिण्टन् क्रीडालुः। २००९ तमे वर्षे अन्ताराष्ट्रीयक्रीडाः आरब्धवती। २०१७ तमे वर्षे क्रीडालूनां आवल्यां द्वितीयस्थानं प्रापत्। अनेकासु स्पर्धासु पदकानि च प्राप्तवती।२०१६ तमे ओलम्पिक् स्पर्धायां रजतपदकं[१], २०१९ तमे विश्वब्याड्मिन्टन्क्रीडायां स्वर्णपदकं[२] च प्राप्तवती।

बाल्यजीवनं, क्रीडाभ्यासश्च

पि.वि सिन्धोः माता विजया पिता च रमणः। तस्याः पितरौ वालिबाल् क्रीडकौ आस्ताम्। पिता तु १९८६ तमस्य तृतीयस्थानविजेतस्य वालिबाल् गणस्य क्रीडालुः सन् अर्जुनपुरस्कारं[३] प्रापत्। सिन्धोः अग्रजा दिव्या ह्याण्ड्बाल् क्रीडालुः। सिन्धुः अष्टमे वर्षे क्रीडनम् आरब्धवती। आरम्भे महबूब् अलि इत्याख्यः ताम् अपाठयत्। ततः गोपीचन्द् अकाडमी द्वारा क्रीडाशिक्षणं अनुवृत्तम्। चतुर्दशन्यूनवयस्कानां राष्ट्रस्तरीयक्रीडायां स्वर्णपदकं च प्राप्तवती।[३]

क्रीडास्पर्धासु पुरस्काराः

वर्षम् २०१० २०११ २०१२ २०१३ २०१४ २०१५ २०१६ २०१७ २०१८ २०१९
कोरिया ओपन् सूपर् सीरीज् द्वितीयचक्रम्
चैना सूपर् सीरीज् चिता उपान्त्यचक्रम्
इण्डोनेशिया सूपर् सीरीज् द्वितीयचक्रम्
भारतमुक्तक्रीडा[४] उपान्तिमचक्रम् प्रथमचक्रम् चिता उपान्तिमचक्रम्
जपान् मुक्तक्रीडा द्वितीयचक्रम्
डच् ओपन्
विश्वब्याड्मिण्टन् चाम्पियन्शिप् फलकम्:Bronze medal फलकम्:Bronze medal फलकम्:Silver medal फलकम्:Silver medal फलकम्:Gold medal
ओलम्पिक् क्रीडा फलकम्:Silver medal[५]

वैयक्तिकजीवनम्

पिवि सिन्धुः २०१३ तः भारत् पेट्रोलियं संस्थायाम् क्रीडाविभागे उद्योगिनी वर्तते। रियो ओलम्पिक् क्रीडायां पदकप्राप्तेः परं तस्याः पदोन्नतिः अभवत्। सा ब्रिड्ज्स्टोन् संस्थायाः भारतस्य प्रतिनिधिरपि वर्तते[६]। आन्ध्रप्रदेशसर्वकारस्य डेप्यूटी डैरेक्टर् अपि वर्तते। २०१८ तमे कामन्वेल्त् क्रीडायां भारतस्य ध्वजधारिणी च आसीत्[७]

पुरस्काराः

  • राजीवगान्धी खेल् रत्न पुरस्कारः (भारतस्य उन्नतः क्रीडापुरस्कारः) (२०१६)[८]
  • पद्मश्रीः पुरस्कारः भारतस्य चतुर्थः उन्नतः नागरिकपुरस्कारः (२०१५)[९]
  • अर्जुनपुरस्कारः (२०१३)[१०]
  • एफ् ऐ सि सि ऐ ब्रेक्थ्रू स्पोर्ट्पर्सन् आफ् दि ईयर् २०१४[११]
  • एन्.डि.टी.वि इण्डियन् आफ् दि ईयर् २०१४ [१२]


उल्लेखाः

फलकम्:Reflist

"https://sa.bharatpedia.org/index.php?title=पि.वि_सिन्धुः&oldid=5777" इत्यस्माद् प्रतिप्राप्तम्