पवनः पवतामस्मि...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
पवनः पवतामस्मि रामः शस्त्रभृतामहम् ।
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥ ३१ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य एकत्रिंशत्तमः(३१) श्लोकः ।

पदच्छेदः

पवनः पवताम् अस्मि रामः शस्त्रभृताम् अहम् झषाणां मकरः च अस्मि स्रोतसाम् अस्मि जाह्नवी ॥ ३१ ॥

अन्वयः

अहं पवतां पवनः अस्मि, शस्त्रभृतां रामः, झषाणां मकरः अस्मि,स्रोतस‌ां च जाह्नवी अस्मि।

शब्दार्थः

पवताम् = पावयितॄणाम्
पवनः अस्मि = वायुः अस्मि
शस्त्रभृताम् = आयुधधारिणाम्
अहं रामः = अहं परशुरामः / दाशरथिः रामः
झषाणाम् = मत्स्यादीनाम्
मकरः च अस्मि = नक्रः च अस्मि
स्रोतसाम् = नदीनाम्
जाह्नवी अस्मि = गङ्गा अस्मि ।

अर्थः

पावयितॄणां मध्ये अहं वायुः अस्मि । आयुधधारिषु कुठारकधरः परशुरामः (कोदण्डधरः श्रीरामः) अस्मि । मत्स्यादिषु मकरः अस्मि । नदीषु पवित्रतमा गङ्गा अस्मि ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=पवनः_पवतामस्मि...&oldid=9768" इत्यस्माद् प्रतिप्राप्तम्