पटोललता

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Taxobox

पटोलः
पटोलपुष्पम्
पक्वः पटोलः

इदं पटोलसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । इयं लता इति कारणात् आधारम् अवलब्य वर्धते । इयं लता अधिकतया गङ्गानद्याः तीरे, उत्तरप्रदेशे, बङ्गाले च वर्धते । अन्येषु प्रदेशेषु अपि वर्धते । अस्याः लतायाः पर्णानि हृदयस्य आकारकाणि अथवा आयताकारकाणि भवन्ति । तानि पर्णानि कर्कशस्पर्शाणि भवन्ति । पर्णानि ३ – ४ अङ्गुलं यावत् दीर्घाणि, २ अङ्गुलं यावत् विशालानि च भवन्ति । अस्याः लतायाः पुष्पाणि श्वेतवर्णीयानि । अस्याः पटोललतायाः फलानि लम्बाकारकाणि, २ – ४ अङ्गुलतः २-४ पादपरिमितानि दीर्घाणि च भवन्ति । तानि फलानि आरम्भे वर्धनावसरे श्वेतमिश्रित – हरितवर्णीयानि, अनन्तरं वर्धनानन्तरं (पक्वानन्तरं) पीतवर्णीयानि अथवा रक्तवर्णीयानि भवन्ति । अस्याः अपक्वे फले २ % यावत् प्रोटीन् इत्यंशः, ०.३ % यावत् मेदस्, २.२ % यावत् कार्बोहैड्रेट्, ०.५ % यावत् खनिजं भवति । अस्याः लतायाः पर्णे ५ % यावत् प्रोटीन्, १.१ % यावत् मेदस्, ५.६ % यावत् कार्बोहैड्रेट्, ३ % यावत् खनिजं चापि भवति । बीजे २६.३ % यावत् तैलांशः अस्ति । अस्याः लतायाः फलानि आहारे शाकत्वेन उपयुज्यन्ते ।

इतरभाषाभिः अस्य पटोलसस्यस्य नामानि

इदं पटोलसस्यम् आङ्ग्लभाषया........... इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Trichos Anthes Diodila इति । हिन्दीभाषया“परवल” इति, तेलुगुभाषया“कोम्बु पोटालिल” इति, तमिळभाषया“कम्बुपादालायि” इति, मलयाळभाषया“काट्टु पोटोलम्” इति, कन्नडभाषया“पडवल” इति, बङ्गभाषया "चिचिङ्गा" इति उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य पटोलसस्यस्य प्रयोजनानि

अस्य पटोलसस्यस्य रसः तिक्तः । इदं लघुगुणयुक्तं, रूक्षं चापि ।

  1. इदं पटोलं त्रिदोषहरम् (वातः, पित्तं, कफः च) ।
  2. पटोलस्य उपयोगेन केशवर्धनं भवति, व्रणाः च शुष्यन्ति ।
  3. पटोलं वेदनां शमयति ।
  4. अस्याः लतायाः मूलस्य लेपः शिरोवेदनां परिहरति ।
  5. व्रणेषु अस्याः पर्णानां रसः उपयुज्यते । स च रसः केशाणां विगलने अपि उपयुज्यते ।
  6. अस्य पटोलस्य सेवनेन अग्निमान्द्यम्, अरुचिः, अजीर्णं चापि अपगच्छति ।
  7. पिपासायां (दाहे), आल्म-उद्गीर्णे, यकृत्-विकारे चापि अस्य उपयोगः हितकरः ।
  8. कामलारोगे, उदरसम्बद्धेषु रोगेषु च पटोलः उपयुज्यते ।
  9. इदं पटोलं मूलव्याधिं क्रिमिबाधां चापि निवारयति ।
  10. अस्य उपयोगेन रक्तविकाराः त्वग्विकाराः च अपगच्छन्ति ।
  11. अस्य पर्णानां स्वरसः १० – २० मि. ली. यावत्, कषायं ३० मि. ली. यावत् च सेवनीयम् ।
"https://sa.bharatpedia.org/index.php?title=पटोललता&oldid=7211" इत्यस्माद् प्रतिप्राप्तम्