न तदस्ति पृथिव्यां वा...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात् त्रिभिर्गुणैः ॥ ४० ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य चत्वारिंशत्तमः(४०) श्लोकः ।

पदच्छेदः

न तत् अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः सत्त्वं प्रकृतिजैः मुक्तं यत् एभिः स्यात् त्रिभिः गुणैः ॥

अन्वयः

प्रकृतिजैः एभिः त्रिभिः गुणैः यत् मुक्तंस्यात् तत् सत्त्वं पृथिव्यां न अस्ति, दिवि देवेषु वा पुनः (नास्ति) ।

शब्दार्थः

पृथिव्याम् = भूमौ
दिवि = द्युलोके
प्रकृतिजैः = प्रकृतिसम्भवैः
मुक्तम् = त्यक्तम्
सत्त्वम् = प्राणिजातम् ।

अर्थः

प्रकृतिस्थितैः सत्त्वादिभिः त्रिभिः गुणैः निर्मुक्तः तादृशः प्राणी भूलोके नास्ति देवलोकेऽपि नास्ति।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=न_तदस्ति_पृथिव्यां_वा...&oldid=2634" इत्यस्माद् प्रतिप्राप्तम्