न कर्तृत्वं न कर्माणि...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ १४ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य चतुर्दशः (१४) श्लोकः ।

पदच्छेदः

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः न कर्मफलसंयोगं स्वभावः तु प्रवर्तते ॥ १४ ॥

अन्वयः

प्रभुः लोकस्य कर्तृत्वं न सृजति । कर्माणि न, कर्मफलसंयोगं न । स्वभावः तु प्रवर्तते ।

शब्दार्थः

प्रभुः = परमात्मा
लोकस्य = जनस्य
कर्तृत्वम् = विधातृत्वम्
न सृजति = न करोति
कर्माणि = कर्तव्यानि
न = न करोति
कर्मफलसंयोगम् = कर्मप्रयोजनयोः सम्बन्धम्
न = न कुरुते
स्वभावः तु = अविद्या तु
प्रवर्तते = प्रचरति ।

अर्थः

परमात्मा लोकस्य कर्तृत्वं न उत्पादयति । कर्माणि अपि न सृजति । कर्मफलसंयोगमपि न जनयति । अविद्यालक्षणा प्रकृतिः प्रवर्तते ।

शाङ्करभाष्यम्

न कर्तृत्वमिति। न कर्तृत्वं स्वतः कुर्विति नापि कर्माणि रथघटप्रासादादीनीप्सिततमानि लोकस्य सृजत्युत्पादयति प्रभुरात्मा नापि रथादिकृतवतस्तत्फलेन संयोगं नकर्मफलसंयोगम्। यदि किंचिदपि स्वतो न करोति न कारयति च देही कस्तर्हि कुर्वन्कारयंश्च प्रवर्तत इत्युच्यते। स्वभावस्तु स्वो भावः स्वभावोऽविद्यालक्षणा प्रकृतिर्मायाप्रवर्तते दैवी हीत्यदिना वक्ष्यमाणा ।।14।।

फलकम्:गीताश्लोकक्रमः

फलकम्:कर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=न_कर्तृत्वं_न_कर्माणि...&oldid=6020" इत्यस्माद् प्रतिप्राप्तम्