निश्चयं शृणु मे तत्र...
नेविगेशन पर जाएँ
खोज पर जाएँ
श्लोकः
- निश्चयं शृणु मे तत्र त्यागे भरतसत्तम ।
- त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥ ४ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य चतुर्थः(४) श्लोकः ।
पदच्छेदः
निश्चयं शृणु मे तत्र त्यागे भरतसत्तम त्यागः हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥
अन्वयः
भरतसत्तम ! तत्र त्यागे मे निश्चयं शृणु, पुरुषव्याघ्र ! त्यागः हि त्रिविधः सम्प्रकीर्तितः ।
शब्दार्थः
- भरतसत्तम = भरतश्रेष्ठ
- निश्चयम् = निर्धारणम्
- पुरुषव्याघ्र = पुरुषश्रे !
- सम्प्रकीर्तितः = वर्णितः ।
अर्थः
भरतश्रे अर्जुन ! तत्र त्यागे तावत् मम निर्धारणं शृणु । अर्जुन ! त्यागः त्रिविधः वर्णितः ।