नासा

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox Government agency

नैशनल् एरोनॉटिक्स् एण्ड् स्पेस् एडमिनिस्ट्रेशन् (संस्कृतानुवादः-राष्ट्रियवैमानिक-अन्तरिक्षप्रशासनम्; फलकम्:Lang-en) अथवा नासा (सङ्क्षिप्तनाम) (फलकम्:Lang-en) अमेरिकादेशस्य एका अन्तरिक्षगवेषणा संस्था । १९५८ तमे वर्षे अस्याः संस्थायाः संरचना अभवत् । नासा इत्येव संक्षिप्तनाम्ना अस्याः ख्यातिः । नासायाः मुख्यकार्यालयः वाशिङ्गटन्, डि.सि. नगरे अस्ति । १९५८ तमवर्षस्य २९ तमे दिनाङ्के नैशनल् एड्वैज़री कमिटी फ़र् एरोनॉटिक्स् (NACA) इति अन्तरिक्षसंस्थायाः अवलुप्तिं कृत्वा अमेरिकासर्वकारः नैशनल् एरोनॉटिक्स् एण्ड् स्पेस् एक्ट्[१][२] माध्यमेन नासा इति संस्थायाः संरचनाम् अकरोत् । नासायाः बहुसफलकार्येषु अपोलो चन्द्रयात्रा अन्यतमा[३][४][५][६]

इतिहासः

१९४६ तमे वर्षे 'एरोनॉटिक्स् ( NACA ) राष्ट्रियमन्त्रालयः 'सुपर्सनिक् बेल् एक्स्-१ रकेट्' विमानं प्रथमवारं परीक्षाम् अकरोत्[७]। १९५७-५८ समयकालः 'अन्ताराष्ट्रिय-भौगलिकसंवत्सरः' इति उत्घोषितः आसीत् । तन्निमित्तं अमेरिकादेशेस्य 'व्यान्-गार्ड्' इति नाम्ना विशेषप्रकल्पः आसीत् । १९५७ तमवर्षस्य ४ दिनाङ्के विश्वस्य प्रथमकृत्रिम-उपग्रहः (स्पुट्निक् १) सोवियेत्-रशियादेशेन प्रेषणानन्तरम् अन्तरिक्षशोधविषये अमेरिकादेशः अत्युत्साही आसीत् । अमेरीकीयकंग्रेस्-पक्षः NACAविभागस्य नेतारम् आहूय अविलम्बेन तथा क्षिप्रवेगेन कर्मान् समापयितुम् उक्तवान् । स्पुट्निक् सङ्कटम् (Sputnik crisis) इति नाम्ना ख्यातः अयं कालः । अमेरिकादेशस्य राष्ट्रपतिः डोयैट् डि ऐजेन्हावर् एवं तस्य मन्त्रिमण्डलः अन्तरिक्षशोधकार्यविषये तेषां चिन्तनं प्रकटितवन्तः । प्रधानतः NACA संस्थायाः अधीने अन्तरिक्षशोधनिमित्तम् एकस्य नूतनस्वतन्त्रविभागस्य संरचना । समकालैव १९५८ तमे वर्षे 'उन्नतगवेषणा-प्रकल्पसंस्था'(Advanced Research Projects Agency (ARPA)) अमेरिकादेशस्य सामरिकसहाय्यार्थं निर्मितम्[८]

१९५८ तमवर्षस्य जुलैमासस्य २९ तमे दिनाङ्के राष्ट्रपतिना डोयैट् डि ऐजेन्हावर् महोदयेन 'नैशनल् एरोनॉटिक्स् एण्ड् स्पेस् एक्ट्' इति प्रस्तावपत्रे हस्ताक्षरम् कृत्वा नासायाः निर्माणम् अकरोत् । वस्तुतः १९५८ तमवर्षस्य अक्टोबर् मासस्य २९ तमे दिनाङ्के शुभारम्भदिवसः । ४६ वर्षपुरातनीं संस्थां विलोप्य नासायाः प्रारम्भः आसीत् । प्रारम्भे अस्याः संस्थायाः ८,००० कार्यकर्तारः आसन् । नासायाः वार्षिक-अर्थसङ्कल्पः आसीत् $१०० मिलियन्(यु एस् डलर्) । तदा नासा अन्तरिक्षकेन्द्रे त्रिणि प्रधानगवेषणागाराणि ('लेङ्गली'वैमानिकगवेषणागारं, विशेषवैमानिकगवेषणागारं तथा ल्युस् फ्लैट् परिचालना गवेषणागारम्) तथा द्वे लघुपरीक्षणकेन्द्रे आस्ताम्[९]। १९५९ तमे वर्षे राष्ट्रपतिः ऐजेन्हावर् महोदयः 'नासा'प्रतीकचिह्नं अनुमोदितवान्[१०]

टिप्पणी

फलकम्:Reflist

बाह्यसम्पर्काः

फलकम्:Commons category फलकम्:Wikisource

साधारणतथ्यानि
अधिकज्ञानार्थम्
"https://sa.bharatpedia.org/index.php?title=नासा&oldid=10785" इत्यस्माद् प्रतिप्राप्तम्