नादत्ते कस्यचित्पापं...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ १५ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य पञ्चदशः (१५) श्लोकः ।

पदच्छेदः

न आदत्ते कस्यचित् पापं न चैव सुकृतं विभुः अज्ञानेन आवृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ १५ ॥

अन्वयः

विभुः कस्यचित् पापं न आदत्ते । सुकृतं च एव न । ज्ञानम् अज्ञानेन आवृतम् । तेन जन्तवः मुह्यन्ति ।

शब्दार्थः

विभुः = परमेश्वरः
कस्यचित् = कस्यचिदपि जीवस्य
पापम् = दुरितम्
न आदत्ते = न स्वीकरोति
सुकृतं च = पुण्यमपि
न एव = नैव स्वीकरोति
ज्ञानम् = ज्ञानम्
अज्ञानेन = अज्ञानेन
आवृतम् = आच्छन्नम्
तेन = तेन
जन्तवः = जीवाः
मुह्यन्ति = मोहं प्रप्नुवन्ति ।

अर्थः

परमात्मा कस्यापि जीवस्य पापं पुण्यं वा नैव गृाति । अज्ञानेन ज्ञानम् आवृतं भवति । तेन सर्वेऽपि जन्तवः मोहम् उपगच्छन्ति ।

शाङ्करभाष्यम्

परार्थतस्तु-नादत्ते नच गृह्णति भक्तस्यापि कस्याचित्पापं न चैवादत्ते सुकृतं भक्तैः प्रयुक्तं विभुः। किमर्थं तर्हि भक्तैः पूजादिलक्षणं यागदानहोमादिकं च सुकृतंमप्रयुज्यत इत्याह-अज्ञानेनावृतं ज्ञानं विवेकविज्ञानं तेन विवेकविज्ञानं तेन मुह्यन्ति करोमि कारयामि भोक्ष्ये भोजयामीत्येवं मोहं गच्छन्त्यविवेकिनः संसारिणोजन्तूनां विवेकज्ञानेनात्मविषयेण नाशितमात्मनो भवति तेषामादित्यवद्यथादित्यःसमस्तं रूपजातमवभासयति तद्वज्ज्ञानं ज्ञेयं च वस्तु सर्वं प्रकाशयति तत्परमार्थतत्त्वम् ।।15।।

फलकम्:गीताश्लोकक्रमः

फलकम्:कर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु