नन्दुरबारमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

सञ्चिका:Shirish kumar.jpg
बालवीरः शिरीष कुमार
सञ्चिका:Devmogra.jpg
देवमोगरा-देवी
उनपदेव
सञ्चिका:Nandurabar adi.jpg
नन्दुरबार-आदिवासिनः
सञ्चिका:तोरणमाळ 2.jpg
तोरणमाळ-गिरिधाम

नन्दुरबारमण्डलं (फलकम्:Lang-mr, फलकम्:Lang-en) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं नन्दुरबार इत्येतन्नगरम् | स्वातन्त्र्यसङ्ग्रामे हुतात्मा, प्रसिद्धः, निर्भयः, बालकानाम् आदर्शः शिरीष कुमार इत्यस्य जन्मस्थानमिदं नन्दुरबारमण्डलम् । महाराष्ट्रराज्ये वायव्यदिशि मण्डलमिदं विद्यते । 'खान्देश' इति महाराष्ट्रविभागे स्थितम् अन्यतमं मण्डलमिदम् ।

भौगोलिकम्

नन्दुरबारमण्डलस्य विस्तारः ५,०३५ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि मध्यप्रदेशराज्यं, पश्चिमदिशि गुजरातराज्यम्, उत्तरदिशि गुजरातराज्यं, मध्यप्रदेशराज्यं च, दक्षिणदिशि धुळेमण्डलम् अस्ति । अस्मिन् मण्डले ८५९ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । मण्डलेऽस्मिन् तापी-नर्मदे प्रमुखनद्यौ स्तः । मण्डलेऽस्मिन् २०.७८% भूमिः अरण्यव्यापृता ।


ऐतिहासिकं किञ्चित्

तृतीये शतके निर्मितेषु कान्हेरी-लयनेषु 'नन्दी गृह' इत्यनेन नाम्ना उल्लिखितमस्ति इदं मण्डलम् । एतेषां लयनानां स्थापना नन्द इति गोपराजेन कृता । पुरातनकाले सुन्दरनगरम् इति नन्दुरबार-नगरस्य ख्यातिः आसीत् । १३८२ तमे वर्षे इब्न बतूता अस्मिन् नगरे उषितवान् । १९६० तमे वर्षे यदा महाराष्ट्रराज्यस्य स्थापना कृता तदा नन्दुरबारपरिसरः धुळेमण्डले समाविष्टः आसीत् । १९९९ तमे वर्षे प्रशासनसौकर्यार्थम् आदिवासी-बहुसङ्ख्यप्रदेशः नन्दुरबारपरिसरः विभिन्नमण्डलत्वेन स्थापितः सर्वकारेण ।

कृषिः उद्यमः च

आमहाराष्ट्रं यथा 'खरीप' (kharif), 'रब्बी' (rabi) इति द्विप्रकारका (वर्षे द्विवारं, ऋतुमनुसृत्य) सस्योत्पादनपद्धतिः अस्ति, तथैव अत्रापि । मण्डलेऽस्मिन् यवनालः(ज्वारी), गोधूमः, तण्डुलः, 'तूर', कलायः, मरीचिका, इक्षुः, कार्पासः, सीताफलं (custard apple), कदलीफलम् इत्यादीनि प्रमुखसस्योत्पादनानि सन्ति । मण्डलेऽस्मिन् कार्पासप्रक्रिया-उद्यमाः, खाद्यपदार्थप्रक्रिया-उद्यमाः च प्रचलन्ति । परम् एतेषां परिमाणं न्यूनमेव अस्ति । कृषिः एव प्रमुखोपजीविकासाधनम् ।

जनसङ्ख्या

नन्दुरबारमण्डलस्य जनसङ्ख्या(२०११) १६,४८,२९५ अस्ति । अस्मिन् ८,३३,१७० पुरुषाः, ८,१५,१२५ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते क्षेत्रे २७७ जनाः निवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २७७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २५.६६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७८ अस्ति । अत्र साक्षरता ६४.३८% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-

  • अक्कलकुवा
  • अक्राणी महाल (धाडगाव)
  • तळोदा
  • नन्दुरबार
  • नवापुर
  • शहाडा
  • धण्डगाव

लोकजीवनम्

अक्कलकुवा, अक्राणी महाल (धाडगाव), नवापुर इत्येतेषु उपमण्डलेषु वनवासिजनाः निवसन्ति । तेषां विशिष्टा संस्कृतिः अत्र दृश्यते । 'देवमोगरा' देवी, 'वाघदेव', 'खण्डोबा', 'कान्होबा', 'बहिरोबा', 'महादेव' इत्येतानि तेषां देवतानामानि । 'भिल' इति आदिवासिजनाः मण्डलेऽस्मिन् बहुसङ्ख्याः सन्ति । ते पर्वतप्रदेशेषु निवसन्ति । तेषां वेशाभूषाऽपि विशिष्टा । पुरुषाः प्रोञ्छं धरन्ति, महिलाः शाटिकां धरन्ति । कुटुम्बेषु महिलानां स्थानं महत्त्वपूर्णं, महिलाः सम्पत्तौ भागमपि प्राप्नुवन्ति इति विशेषः । आदिवासिजनानां प्राचुर्यात् आदिवासी-मण्डलम् इत्यपि प्रसिद्धिः अस्य मण्डलस्य । परं बहिर्जगतः सम्पर्कवशात् आदिवासिजनानां प्रगतिः जायमाना वर्तते । प्रगत्या सत्परिणामः, दुष्परिणामः भवति वा इति तु कालान्तरे ज्ञायते ।

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति -

  • सातपुडा-पर्वतावल्यां स्थितं तोरणमाळ-गिरिधाम ।
  • अक्राणी इत्यत्र स्थितम् अस्तम्भ
  • शहाडा इत्यत्र स्थितम् उनपदेव
  • शहाडा इत्यत्र स्थितं दक्षिण-काशी इति प्रसिद्धं प्रकाश
  • सारङ्गखेडा इत्यत्र स्थितं दत्तमन्दिरम्
  • यशवन्त ह्रदः/सरोवरः
  • सीताखाई
  • शिरीष कुमार स्मारकम्
  • जुना किल्ला

बाह्यसम्पर्कतन्तुः

फलकम्:Geographic location

फलकम्:महाराष्ट्रराज्यस्य मण्डलानि

"https://sa.bharatpedia.org/index.php?title=नन्दुरबारमण्डलम्&oldid=5469" इत्यस्माद् प्रतिप्राप्तम्