दातव्यमिति यद्दानं...
नेविगेशन पर जाएँ
खोज पर जाएँ
श्लोकः
- दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।
- देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥ २० ॥
अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य विंशतितमः(२०) श्लोकः ।
पदच्छेदः
दातव्यम् इति यत् दानं दीयते अनुपकारिणे देशे काले च पात्रे च तत् दानं सात्त्विकं स्मृतम् ॥ २० ॥
अन्वयः
देशे काले च पात्रे च दातव्यम् इति अनुपकारिणे यत् दानं दीयते तत् दानं सात्त्विकं स्मृतम् ।
शब्दार्थः
- देशे = योग्ये प्रदेशे
- काले = योग्ये समये
- पात्रे = शमादिगुणसम्पन्ने
- दातव्यम् इति = देयम् इति
- अनुपकारिणे = उपकारविहीनाय
- स्मृतम् = प्रोक्तम् ।
अर्थः
योग्ये प्रदेशे योग्ये च काले उपकारम् अकृतवते च शमादिगुणसम्पन्नाय पुरुषाय दातव्यम् इति बुद्ध्या यत् दानं क्रियते तत् सात्त्विकम् इत्युच्यते ।