ते तं भुक्त्वा स्वर्गलोकं...
नेविगेशन पर जाएँ
खोज पर जाएँ
श्लोकः
- ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
- एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ॥ २१ ॥
अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य एकविंशतितमः(२१) श्लोकः ।
पदच्छेदः
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति एवं त्रयीधर्मम् अनुप्रपन्नाः गतागतं कामकामा लभन्ते ॥ २१ ॥
अन्वयः
ते तं विशालं स्वर्गलोकं भुक्त्वा पुण्ये क्षीणे (सति) मर्त्यलोकं विशन्ति । एवं त्रयीधर्मम् अनुप्रपन्नाः कामकामाः गतागतं लभन्ते ।
शब्दार्थः
- ते = ते मानवाः
- विशालम् = विपुलम्
- तम् = प्रसिद्धम्
- स्वर्गलोकम् = स्वर्गभुवनम्
- भुक्त्वा = अनुभूय
- पुण्ये = सत्कर्मजन्यफलविशेषे
- क्षीणे = विनष्टे सति
- मर्त्यलोकम् = मानवलोकम्
- विशन्ति = प्रविशन्ति ।
- एवम् = इत्थम्
- त्रयीधर्मम् = वेदत्रयधर्मम्
- अनुप्रपन्नाः = प्राप्ताः
- कामकामाः = भोगवस्तूनि
- इच्छन्तः
- गतागतम् = यातायातम्
- लभन्ते = प्राप्नुवन्ति ।
अर्थः
ते च वेदत्रयविदः विशाले तस्मिन् स्वर्गलोके कञ्चित् कालं सुखम् अनुभूय पुण्ये क्षीणे सति इमं लोकम् आगच्छन्ति । पुनरपि वैदिकमार्गम् अनुसरन्तः भोगान् अपेक्षमाणाः स्वर्गं गच्छन्ति । ततः पुण्ये क्षीणे सति ततः प्रत्यागच्छन्ति ।