तुल्यनिन्दास्तुतिर्मौनी...
नेविगेशन पर जाएँ
खोज पर जाएँ
श्लोकः
- तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् ।
- अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ १९ ॥
अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य नवदशः (१९) श्लोकः ।
पदच्छेदः
तुल्यनिन्दास्तुतिः मौनी सन्तुष्टः येन केनचित् अनिकेतः स्थिरमतिः भक्तिमान् मे प्रियः नरः ॥ १९ ॥
अन्वयः
शत्रौ च मित्रे च समः तथा मानापमानयोः शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः तुल्यनिन्दास्तुतिः मौनी येन केनचित् सन्तुष्टः अनिकेतः स्थिरमतिः भक्तिमान् नरः मे प्रियः ।
शब्दार्थः
- शत्रौ च = अरौ च
- मित्रे च = वयस्ये च
- समः = समानः
- तथा = एवम्
- मानापमानयोः = पूजातिरस्कारयोः
- शीतोष्णसुखदुःखेषु = द्वन्द्वेषु
- समः = समानः
- सविवर्जितः = विषयसरहितः
- तुल्यनिन्दास्तुतिः = दूषणश्लाघनयोः समानः
- मौनी = नियतवाक्
- येन केनचित् = येन केनापि लाभेन
- सन्तुष्टः = सन्तृप्तः
- अनिकेतः = अनिवासः
- स्थिरमतिः = निश्चलमनस्कः
- भक्तिमान् नरः = भक्तः पुरुषः
- मे प्रियः = मम इष्टः ।
अर्थः
अरौ च मित्रे च समानः तथा पूजातिरस्कारयोः शीतोष्णयोः सुखदुःखयोश्च समानः, विषयासक्तिरहितः, दूषणश्लाघनयोः समानः, नियतवाक्, येन केनापि फलेन सन्तृप्तः, अनिवासः, निश्चलमनस्कः भक्तः मम इष्टः ।