तस्य सञ्जनयन् हर्षं...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
तस्य सञ्जनयन् हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ १२ ॥

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य द्वादशः (१२) श्लोकः ।

पदच्छेदः

तस्य, सञ्जनयन्, हर्षम्, कुरुवृद्धः, पितामहः । सिंहनादम्, विनद्य, उच्चैः, शङ्खम्, दध्मौ, प्रतापवान् ॥

अन्वयः

प्रतापवान् कुरुवृद्धः पितामहः तस्य हर्षं सञ्जनयन् सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ ।

शब्दार्थः

प्रतापवान् = तेजस्वी
कुरुवृद्धः = कुरुषु ज्येष्ठः
पितामहः = भीष्मः
तस्य = दुर्योधनस्य
हर्षम् = मोदम्
सञ्जनयन् = उत्पादयन्
सिंहनादं विनद्य = सिंहः इव गर्जित्वा
शङ्खम् = शङ्खम्
उच्चैः = गाढम्
दध्मौ = आध्मातवान् ।

अर्थः

तदा पितामहः भीष्मः सिंहः इव उच्चैः गर्जनम् अकरोत् । ततः शङ्खमपि उच्चैः अधमत् येन दुर्योधनस्य महान् सन्तोषः जातः ।

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in

फलकम्:अर्जुनविषादयोगः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=तस्य_सञ्जनयन्_हर्षं...&oldid=10956" इत्यस्माद् प्रतिप्राप्तम्