तत्रापश्यत् स्थितान् पार्थः...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

फलकम्:Underlinked

गीतोपदेशः
तत्रापश्यत् स्थितान् पार्थः पितॄनथ पितामहान् ।
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥ २६ ॥
श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि ।

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य षड्विंशतितमः (२६) श्लोकः ।

पदच्छेदः

तत्र, अपश्यत्, स्थितान्, पार्थः, पितॄन्, अथ, पितामहान् । आचार्यान्, मातुलान्, भ्रातॄन्, पुत्रान्, पौत्रान्, सखीन्, तथा ॥ श्वशुरान्, सुहृदः, च, एव, सेनयोः, उभयोः, अपि ।

अन्वयः

अथ पार्थः तत्र स्थितान् पितॄन् पितामहान् आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखीन् श्वशुरान् सुहृदः च उभयोः अपि सेनयोः अपश्यत् ।

शब्दार्थः

अथ = ततः
पार्थः = अर्जुनः
तत्र = तस्मिन् प्रदेशे
स्थितान् = वर्तमानान्
पितॄन् = पितृतुल्यान्
पितामहान् = पितुः पितॄन्
आचार्यान् = गुरून्
मातुलान् = मातृसहोदरान्
भ्रातॄन् = सहोदरान्
पुत्रान् = पुत्रतुल्यान्
पौत्रान् = पुत्रपुत्रान्
सखीन् = मित्राणि
श्वशुरान् = भार्यायाः पितॄन्
सुहृदः च = कृतोपकारान् च
उभयोः = द्वयोः
अपि = अपि
सेनयोः = सैन्ययोः
अपश्यत् = दृष्टवान् ।

अर्थः

तयोः सेनयोः अर्जुनः स्वबान्धावान्, गुरून्, मित्राणि च अपश्यत् ।

श्लोकवैशिष्ट्यम्

विषयस्य सुबोधाय अग्रिमश्लोकस्य प्रथमपादः अपि अत्रैव दत्तम् वर्तते ।

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in

फलकम्:अर्जुनविषादयोगः

सम्बद्धाः लेखाः