ततः स विस्मयाविष्टो...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः ।
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ १४ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य चतुर्दशः(१४) श्लोकः ।

पदच्छेदः

ततः स विस्मयाविष्टः हृष्टरोमा धनञ्जयः प्रणम्य शिरसा देवं कृताञ्जलिः अभाषत ॥ १४ ॥

अन्वयः

ततः हृष्टरोमा सः धनञ्जयः विस्मयाविष्टः शिरसा देवं प्रणम्य कृताञ्जलिः अभाषत ।

शब्दार्थः

ततः = अनन्तरम्
हृष्टरोमा = सरोमाञ्चः
सः धनञ्जयः = सः अर्जुनः
विस्मयाविष्टः = आश्चर्योपेतः
शिरसा = शीर्षेण
देवम् = विष्णुम्
प्रणम्य = नमस्कृत्य
कृताञ्जलिः = बद्धाञ्जलिः
अभाषत = अवदत् ।

अर्थः

अनन्तरं सरोमहर्षः सः अर्जुनः विस्मितः शिरसा विष्णुं नमस्कृत्य कृताञ्जलिः अवदत् ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=ततः_स_विस्मयाविष्टो...&oldid=2178" इत्यस्माद् प्रतिप्राप्तम्