ततः श्वेतैर्हयैर्युक्ते...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ १४ ॥

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य चतुर्दशः (१४) श्लोकः ।

पदच्छेदः

ततः, श्वेतैः, हयैः, युक्ते, महति, स्यन्दने, स्थितौ । माधवः, पाण्डवः, च, एव, दिव्यौ, शङ्खौ, प्रदध्मतुः ॥

अन्वयः

ततः माधवः पाण्डवशः च श्वेतैः हयैः युक्ते महति स्यन्दने स्थितौ दिव्यौ शङ्खौ प्रदध्मतुः ।

शब्दार्थः

ततः = तस्मात्परम्
माधवः = श्रीकृष्णः
पाण्डवश्च = अर्जुनश्च
श्वेतैः = धवलैः
हयैः = अश्वैः
युक्ते = संयुक्ते
महति = विशाले
स्यन्दने = रथे
स्थितौ = उपविष्टौ
दिव्यौ = अलौकिकौ
शङ्खौ = शङ्खौ
प्रदध्मतुः = ध्मातवन्तौ ।

अर्थः

ततः पश्चात् भगवान् श्रीकृष्णः अर्जुनश्च धवलवर्णैः अश्वैः उह्यमानेन महता रथेन तत्र समागतौ । तौ च युद्धोत्साहवर्धनाय स्वीयौ अलौकिकौ शङ्खौ ध्मातवन्तौ ।

रामानुजभाष्यम्

ततस्तं घोषमाकर्ण्य सर्वेश्वरेश्वरं पार्थसारथी रथी च पाण्डुतनयस्त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः ॥१.१४॥

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in

फलकम्:अर्जुनविषादयोगः

सम्बद्धाः लेखाः