ज्ञेयः स नित्यसंन्यासी...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति ।
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ ३ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य तृतीयः (३) श्लोकः ।

पदच्छेदः

ज्ञेयः सः नित्यसन्न्यासी यः न द्वेष्टि न काङ्क्षति निर्द्वन्द्वः हि महाबाहो सुखं बन्धात् प्रमुच्यते ॥ ३ ॥'

अन्वयः

महाबाहो ! यः न द्वेष्टि न काङ्क्षति सः नित्यसन्न्यासी ज्ञेयः । निर्द्वन्द्वः बन्धात् सुखं प्रमुच्यते ।

शब्दार्थः

महाबाहो = हे अर्जुन
यः = यः पुरुषः
न द्वेष्टि = न वैरं कुरुते
न काङ्क्षति = न इच्छति
सः = सः पुरुषः
नित्यसन्न्यासी = सततसन्न्यासी
ज्ञेयः = ज्ञातव्यः
निर्द्वन्द्वः = रागद्वेषशून्यः
बन्धात् = बन्धनात्
सुखम् = अनायासेन
प्रमुच्यते = मुक्तो भवति ।

अर्थः

हे अर्जुन ! यः अन्यान् न द्वेष्टि, किञ्चिदपि न काङ्क्षति सः कर्मयोगी नित्यसन्न्यासी इति ज्ञातव्यम् । रागद्वेषशून्यः सः सुखेन कर्मबन्धात् मुक्तो भवति ।

शाङ्करभाष्यम्

कस्मादित्याह-ज्ञेय इति। ज्ञेयो ज्ञातव्यः स कर्मयोगी नित्यसंन्यासीति यो न द्वेष्टि किंचिन्न काङ्क्षति दुःखसुखे तत्साधने यः कर्मणि वर्तमानोऽपि स नित्यसमन्यासीतिज्ञातव्य इत्यर्थः। निर्द्वन्द्वो द्वन्द्ववर्जितो हि यस्मान्महाबाहो सुखं बन्धादनायासेन प्रमुच्यते ।।3।।

फलकम्:गीताश्लोकक्रमः

फलकम्:कर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु