जोसेफ् लिस्टर्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox scientist

कालः – ०५. ०४. १८२७ तः १०. ०२. १९१२

अयं जोसेफ् लिस्टर् (Joseph lister) पूतिनाशकस्य प्रवर्तकः । अयं जोसेफ् लिस्टर् एसेक्स्-देशस्य अप्टन् इति प्रदेशे १८२७ तमे वर्षे एप्रिल्-मासस्य ५ दिनाङ्के जन्म प्राप्नोत् । जोसेफ् लिस्टर् यदा चतुर्दशवर्षीयः आसीत् तदा एव शस्त्रवैद्येन भवितव्यम् इति दृढं निर्णीतवान् आसीत् । तदनुगुणं जोसेफ् लिस्टर् लण्डन्-विश्वविद्यालये अध्ययनं कृत्वा वैद्यपदवीं प्राप्नोत् । अनन्तरं शस्त्रचिकित्सायां प्रशिक्षणं प्राप्तुम् एडिन्बरो-नगरे एव प्रख्यातस्य शस्त्रचिकित्सकस्य जेम्स् सैमस्य समीपं गत्वा तस्य शिष्यः अभवत् । तदवसरे अत्यन्तं वेगेन सः शस्त्रचिकित्सायाः विषयान् अपठत् । तदनन्तरं ३३ तमे वयसि ग्लास्को-विश्वविद्यालये शस्त्रचिकित्सायाः विभागस्य प्राध्यापकरूपेण नियुक्तः अभवत् । एषः जोसेफ् लिस्टर् यदा तत्र वैद्यालयम् आगतवान् तदा सः वैद्यालयः अपि मलिनानाम् आकरः इव आसीत् । तत्र जोसेफ् लिस्टर् व्रणेषु पूयं यत् भवति तस्य निवारणार्थं बहुविधान् प्रयोगान् अकरोत् । तदवसरे तेन लक्षितं यत् अस्थिभङ्गः जायते चेत् पूयम् इत्यादिकं किमपि न भवति स्म । रोगी स्वस्थः भवति स्म । किन्तु यदि भग्नस्य अस्थिनः भागतः चर्म विदार्य अस्थि बहिः आगच्छति तर्हि व्रणेषु पूयं भूत्वा रोगी मरणं प्राप्नोति स्म । तदा एव कश्चन रसायनशास्त्रज्ञः तं जोसेफ् लिस्टरं फ्रान्स्-देशस्य लूयीस् पाश्चरेण मद्यसारे निमज्जनविषये लिखितान् लेखान् परिशीलयतु इति सूचितवान् । जोसेफ् लिस्टर् तदनुगुणं लूयीस् पाश्चरस्य लेखनानि जागरूकतया पर्यशीलयत् । तेषु लूयीस् पाश्चरः व्रणेषु पूयं यत् भवति तस्य सूक्ष्माणुजीविनः एव कारणम् इति लिखितवान् आसीत् । तद्विषये एव १२ वर्षाणि यावत् संशोधनम् अकरोत् एषः जोसेफ् लिस्टर् ।

काल्वट् इति कश्चन रसायनशास्त्रज्ञः अन्तर्कुक्कुल्याः स्वच्छतार्थं क्रिमिनाशकत्वेन कार्बालिक् आम्लम् उपयुक्तवान् आसीत् इति विषयः अनेन जोसेफ् लिस्टरेण ज्ञातः । सः ११ जनानां रोगिणां शस्त्रचिकित्सां कार्बालिक् आम्लम् उपयुज्य एव अकरोत् । तदवसरे एकः केवलं मरणम् अवाप्नोत् । अन्ये १० जनाः रुग्णाः अजीवन् । १८६५ तमे वर्षे एषः जोसेफ् लिस्टर् शस्त्रचिकित्सायाः प्रकोष्ठे कार्बालिक् आम्लस्य सेचनं, शस्त्रचिकित्सायाः उपकरणानि कार्बालिक् आम्ले निमज्ज्य एव उपयोगः, शस्त्रचिकित्सायाः कर्तृभिः, साहाय्यकैः च कार्बालिक् आम्लेन हस्तस्य प्रक्षालनम् इत्यादीन् क्रमान् आरब्धवान् । तेन शस्त्रचिकित्सां प्राप्तवत्सु म्रियमाणानां संख्या ४५ तः १५ प्रतिशतम् अभवत् । कालान्तरे सः जोसेफ् लिस्टर् कार्बालिक् आम्लं जलेन सह वा तैलेन सह वा उपयुज्य तस्य दहनशक्तिम् अपि न्यूनीकृतवान् । १८६७ तमे वर्षे एषः जोस्फ् लिस्टर् पूतिनाशकस्य विषये "दि लान्सेट्” इत्याख्यायां वैद्यकीयपत्रिकायां लेखनम् अपि अलिखत् । आरम्भे अस्य जोसेफ् लिस्टरस्य संशोधनविषये केऽपि आसक्ताः नासन् । क्रमेण पूतिनाशकस्य उपयोगः यदा अधिकः अधिकः जातः तदा विश्वाद्यन्तं सः प्रसिद्धः जातः । विक्टोरिया राज्ञी अपि तस्य जिसेफ् लिस्टरस्य कृते "लार्ड्” पदवीम् अयच्छत् ।

अयं जोसेफ् लिस्टर् १८६०तः १८६९ पर्यन्तं ग्लास्को-विश्वविद्यालये शस्त्रचिकित्सायाः प्राध्यापकत्वेन कार्यम् अकरोत् । १८९४ तः १९०० पर्यन्तं रायल् सोसिट्याः अध्यक्षः अपि आसीत् । अस्य एव साहाय्येन लण्डन् मध्ये "लिस्टर् इन्स्टिट्यूट् आफ् प्रिवेण्टीव् मेडिसन्” इत्यस्याः संस्थायाः अपि आरम्भः अभवत् । १८९६ तमे वर्षे एषः जोसेफ् लिस्टर् वैद्यवृत्तितः निवृत्तिं प्राप्नोत् । सः वृत्त्यवसरे मृदुस्वभावी, नम्रः, उत्तमः च वैद्यः इति प्रसिद्धः आसीत् । लूयीस् पाश्चर् अपि तं जोसेफ लिस्टरं “ब्याक्टीरियाविज्ञानस्य सहसंस्थापकः” इति उक्तवान् असीत् । रोगिणाम् अस्मिन् जोसेफ् लिस्टरि महान् विश्वासः आसीत् । एषः जोसेफ् लिस्टर् एव मणिबन्धस्य, मूत्रकोशस्य, विसर्जननाड्याः च शस्त्रचिकित्साः आरब्धवान् । वैद्यविज्ञाने अस्य जोसेफ् लिस्टरस्य संशोधनानां कारणतः नूतनः कश्चन घट्टः एव आरब्धः इव । अतः एषः “महान् शस्त्रवैद्यः” इति इदानीम् अपि आदरं प्राप्नोति । १९१२ तमे वर्षे फेब्रवरिमासस्य १० दिनाङ्के यदा मरणं प्राप्नोत् तदा राजवंशीयाणाम् इव वेस्ट् मिनिस्टर् अबे मध्ये अन्त्यक्रियां समाधिं च कृत्वा गौरवं प्रदर्शितम् ।

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=जोसेफ्_लिस्टर्&oldid=778" इत्यस्माद् प्रतिप्राप्तम्