जीतेन्द्र वाघाणी

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


फलकम्:Infobox Officeholder

जितेन्द्र वाघानी (जन्म 27 अक्टूबर 1970) कश्चन भारतीयः राजनीतिज्ञः वर्तते। सः गुजरातराज्यस्य शिक्षामंत्री। विधायकरूपेण सः गुजरातविधान-सभायां भावनगरपश्चिमस्य (विधानसभा) प्रतिनिधित्वं करोति। सः गुजरातराज्यस्य भारतीयजनतापक्षस्य अध्यक्षत्वं 2012 तः 2020 पर्यन्तम् अवहत्।

व्यक्तिगतं जीवनं

जीतेन्द्र-महोदयस्य जन्म 27 अक्टूबर 1970 दिनाङ्के भावनगर-मण्डलस्य वरतेज-ग्रामे अभवत्। तस्य प्राथमिकशिक्षा लाठी मध्ये अभवत्। सः न्यायविषयस्य विद्यार्थी अस्ति, बालकालात् सः राष्ट्रियस्वयंसेवकसङ्घस्य स्वयंसेवकः वर्तते। [१]

जीतेन्द्र-महोदयः 2002 वर्षस्य गुजरात-राज्यस्य विधानसभा-निर्वाचने भावनगर-नगरस्य दक्षिणीविधानसभाक्षेत्रस्य वरिष्ठ-कांग्रेस-नेतुः शक्तिसिंह गोहिल-महोदयस्य विरुद्धं निर्वाचने भागं स्वीकृत्य राजनैतिक-जीवनस्य आरम्भम् अकरोत्। परन्तु, सः 7,000 तः अधिक-मतानाम् अन्तरेण पराजितः जातः।[२] जीतेन्द्र-महोदयः 2012 तमे वर्षे भावनगरस्य (पश्चिम)-विधानसभा-क्षेत्रात् निर्वाचने भागम् अवहत्। एतस्मिन् वर्षे सः सफलः जातः। विशेषरूपेण सः सम्पूर्ण-सौराष्ट्रसौराष्ट्रक्षेत्रे सर्वाधिक-अन्तरेण विजयं प्राप्तवान्।[३] 2017 तमवर्षे सः गुजरात-निर्वाचने कांग्रेस-दलस्य दिलीप सिंह गोहिल इत्यस्य विरुद्धं भावनगरपश्चिमक्षेत्रात् भागम् अवहत्। पुनः सः भावनगर-पश्चिम-क्षेत्रात् 4,000 मतैः विजयं प्राप्तवान्। [४]

भाजप-दलस्य पूर्वप्रदेशाध्यक्षः विजय रूपाणी आसीत्, सः गुजरातराज्यस्य मुख्यमंत्रित्वेन नियुक्तः जातः, अतः अगस्त 2013 तमे जीतेन्द्र-महोदयः भाजप-दलस्य गुजरात-प्रदेश-अध्यक्षत्वेन नियुक्तः जातः। [५]

निर्वाचनेतिहासः

वर्षम् पदः निर्वाचनक्षेत्रम् Party Opponent Result
2007 एम.एल.ए. भावनगरदक्षिणः भाजप Shaktisinh Gohil फलकम्:Lost
2012 भावनगरपश्चिमः Mansukhbhai Kanani फलकम्:Won
2017 Dilipsinh Gohil फलकम्:Won

सन्दर्भाः

फलकम्:Reflist

"https://sa.bharatpedia.org/index.php?title=जीतेन्द्र_वाघाणी&oldid=8903" इत्यस्माद् प्रतिप्राप्तम्