जन्म कर्म च मे दिव्यम्...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ ९ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य नवमः(९) श्लोकः ।

पदच्छेदः

जन्म कर्म च मे दिव्यम् एवं यः वेत्ति तत्त्वतः त्यक्त्वा देहं पुनर्जन्म नैति माम् एति सः अर्जुन ॥ ९ ॥

अन्वयः

अर्जुन ! यः मे दिव्यं जन्म कर्म च तत्त्वतः वेत्ति सः देहं त्यक्त्वा पुनर्जन्म न एति । माम् एति ।

शब्दार्थः

अर्जुन = हे अर्जुन
यः = यः पुरुषः
मे = मम
दिव्यम् = अलौकिकम्
जन्म = जननम्
कर्म च = क्रियां च
तत्त्वतः = यथार्थम्
वेत्ति = जानाति
सः = सः पुरुषः
देहम् = शरीरम्
त्यक्त्वा = विसृज्य
पुनर्जन्म = पुनर्जन्म
न एति = न प्राप्नोति
माम् = माम्

एति = लभते ।

अर्थः

हे अर्जुन ! मम एतत् जन्म कर्म च अलौकिकमिति यः पुरुषः यथार्थं जानाति सः शरीरत्यागे सति पुनर्जन्म नाप्नोति प्रत्युत मामेव प्राप्नोति ।

शाङ्करभाष्यम्

तत्-जन्मेति। जन्म मायारूपं, कर्म च साधुपरित्राणादि, मे मम दिव्यमप्राकृतमैश्वरमेवं यथेक्तं यो वेत्ति तत्तवतस्तत्त्वेन यथावत्त्यक्त्वा देहमिमं पुनर्जन्मपुनरुत्पत्तिं नैति न प्राप्नोति मामेत्यागच्छति स मुच्यते हेऽर्जुन।।9।।

फलकम्:गीताश्लोकक्रमः

फलकम्:ज्ञानकर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु