चन्द्रप्रकाश द्विवेदी

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


फलकम्:तलं गच्छतु फलकम्:व्यक्तिः चन्द्रप्रकाश द्विवेदी (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्ययं प्रख्यातः कथानक-लेखकः, निदेशकः, अभिनेता, इतिहासविद् च वर्तते । भारतीयदूरदर्शने तस्य चाणक्य इत्याख्यं धारावाहिकम् अति प्रसिद्धम् अस्ति । तस्मिन् धारावाहिके सः मुख्यनायकस्य चाणक्यस्य अभिनयम् अकरोत् । चाणक्यः (C. ३७० – C. २८३ BCE) उत्कृष्टः शिक्षकः, दार्शनिकः, देशभक्तः च आसीत् । सः कौटिल्यः अथवा विष्णु गुप्त इति नाम्ना अपि प्रसिद्धः आसीत् । चाणक्यस्य देशभक्त्याः विचारान् वर्तमानभारतस्य सम्मुखम् उपस्थापयितुं चन्द्रप्रकाश द्विवेदी चाणक्यसम्बद्धानि अनेकानि पुस्तकानि अपठत् । ततः सः चाणक्याख्यं धारावाहिकम् अरचयत् । तस्य धारावाहिकस्य निर्माणं, लेखनं, निदेशनं, मुख्यपात्राभिनयं च सः एव अकरोत् ।

१९९६ तमस्य वर्षस्य मृत्युञ्जय-आख्यस्य धारावाहिकस्य निदेनशम् अपि चन्द्रप्रकाशः अकरोत् । मृत्युञ्जयधारावाहिकं कर्णस्य जीवनाधारितं धारावाहिकम् आसीत् । तस्य धारावाहिकस्य बहवः अभिनेतारः स्वाभियनयार्थं पुरस्कारं प्रापन् । श्रीचन्द्रप्रकाशः स्वयम् अपि Screen Videocon Best Director इति पदकं प्रापत् ।

चन्द्रप्रकाशेन भारतीयचलच्चित्रेषु अपि महद्योगदानं प्रदत्तम् । २००३ तमे वर्षे पिञ्जर-आख्यं चलच्चित्रं सः निर्मात् [१] । २०१२ तमस्य वर्षस्य प्रख्यातं धारावाहिकम् "उपनिषद् गङ्गा" अपि चन्द्रपकाशस्य निदेशनस्य फलम् आसीत् । Indian Telly Jury Award for Best Background music for a TV Program (fiction), Indian Telly Jury Award for Best Dialogue Writer (drama series & soap) इत्येते पदके "उपनिषद् गङ्गा"-धारावाहिकं प्रापत् [२]

श्रीचन्द्रप्रकाशस्य अनेकानि कार्याणि जनानां सम्मुखं सन्ति । परन्तु विभिन्नैः कारणैः वशीभूतानि अनेकानि कार्याणि जनानां सम्मुखं नागतानि, इतोऽपि तस्य तानि कार्याणि अपूर्णानि एव । एतस्मिन् विषये श्रीचन्द्रप्रकाशः अवदत्, "भारतीयचलच्चत्रक्षेत्रे मम स्मरणं 'किं कृतवान्' इत्यस्य अपेक्षया 'किं न कृतवान्' इत्यस्य कृते अधिकं भविष्यति" इति । अत्र मृत्युञ्जय-आख्यं धारावाहिकं, 'लेजण्ड् ऑफ् कुणाल' इत्येतत् चलच्चित्रम्, 'एक और महाभारत'-धारावाहिकं च तस्य अपूर्णप्रकल्पस्य स्मरणं कारयति [३]

जन्म, शिक्षणञ्च

१९६० तमे वर्षे भारतस्य पश्चिमभागे स्थितस्य महाराष्ट्रराज्यस्य मुम्बई-महानगरस्य उपनगरत्वेन प्रसिद्धे अन्धेरी-पत्तने चन्द्रप्रकाशस्य जन्म अभवत् । तस्य पिता अन्धेरी-स्थिते विद्यालये संस्कृताध्यापकत्वेन कार्यं करोति स्म । सामान्यशिक्षकत्वात् श्रीचन्द्रपकाशस्य पितुः आर्थिकस्थितिः मध्यमा आसीत् । परन्तु संस्कृतस्य गूढज्ञानस्य बलेन चतुसॄषु दिक्षु तस्य ख्यातिः आसीत् । मूलभारतीयसंस्कृतेः रक्षकः सः संयुक्तपरिवारे निवसति स्म । एवं श्रीचन्द्रप्रकाशस्य संस्काराः बाल्यादेव भारतीसंस्कृतियुक्ताः अभूवन् । पितृत्वस्य परिवारेण सह, पितामहेन सह उपहास्यं, मातामह्याः कथाः इत्यादिषु तस्य बाल्यं व्यतीतम् [४]

शालायां श्रीचन्द्रप्रकाशस्य गणना उत्तमेषु छात्रेषु भवति स्म । अतः तस्य मित्राणि अपि अधिकानि आसन् । सर्वेऽपि मित्राणि तस्य समीपे स्थातुं स्पर्धां कुर्वन्ति स्म । कक्षायां श्रीचन्द्रप्रकाशः योग्यविद्यार्थी आसीत्, अतः शिक्षकाः अपि तस्मात् प्रभाविताः आसन् । एकदा संस्कृतस्य शिक्षकः परीक्षायाः उत्तरप्रत्राणि छात्रेभ्यः प्रतियच्छति स्म । तदा शिक्षकः एकम् उत्तरपत्रं प्रदर्श्य अवदत्, "कक्षायाम् एकः विद्यार्थी अस्ति, यः संस्कृतं सम्यक् जानाति । एतत् उत्तरपत्रं तस्य अस्ति । कस्य अस्ति एतत् पत्रम् ? इति । शिक्षकस्य वचनं श्रुत्वा धैर्येण श्रीचन्द्रप्रकाशः हस्तम् उन्नीय अवदत्, "महोदय ! तत् उत्तरपत्रं मम अस्ति" इति । शिक्षकः तम् अपृच्छत्, "त्वं एतावत् संस्कृतं कथं जानासि ?" इति । श्रीचन्द्रप्रकाशः प्रत्युदतरत्, "मम पिता संस्कृतस्य शिक्षकः अस्ति । ममापि संस्कृतविषये गहना रुचिः वर्तते" इति [५]

शालायाः अध्ययनं समाप्य श्रीचन्द्रप्रकाशेन चिकित्साविषयस्य (MBBS) अध्ययनं प्रारब्धम् । पञ्चवर्षेषु चिकित्साविषयम् अधीत्य सः चिकित्सकत्वेन कार्यं कुर्वन् आसीत्, परन्तु सहसा तेन स्वाजीविका परित्यक्ता । यतो हि भारतीयसाहित्ये तस्य गहना रुचिः समुद्भूता [६] । अतः सः रङ्गमञ्चक्षेत्रे कार्यं प्रारभत ।

साक्षात्कारसमये स्वबाल्यकालं स्मृत्वा श्रीचन्द्रप्रकाशः स्वजीवनस्य प्रेरणास्रोतव्यक्तीनाम् उल्लेखम् अकरोत् । सः अकथयत्, "मम जीवने तिसॄणां व्यक्तीनां प्रभावः अधिकः आसीत् [७] । प्रप्रथमः मम पिता, यः संस्कृतशिक्षकः आसीत् । मम गृहे पितुः संस्कृतस्य पुस्तकानि अहं सर्वदा पश्यामि स्म । सामान्यजनैः यादृशानां पुस्तकानां नाम अपि न श्रुतं स्यात्, तादृशानि पुस्तकानि अहं बाल्यकाले पठामि स्म । यथा – बृहदारण्यकोपनिषद्, कठोपनिषद्, लघुसिद्धान्तकौमुदी इत्यादीनि पुस्तकानि मया बाल्यकाले किञ्चित् पठितानि । मम जीवने येषां प्रभावः आसीत्, तेषु द्वितीयः आसीत् देवनाथ सिंह । देवनाथमहोदयः मम इतिहासविषयस्य शिक्षकः आसीत् । सः इतिहासविद् तु आसीदेव, परन्तु उत्तमः साहित्यकारः अपि आसीत् । सः इतिहासस्य घटनानां निरूपणं विद्यार्थिनां सम्मुखं यदा करोति स्म, तदा साहित्यिकच्छटया ऐतिहासिकघटनानां वर्णनं करोति स्म । तेन कृतेन वर्णनेन इतिहासस्य घटनाः मम सम्मुखं नरीनृत्यन्ते इति भावः भवति स्म । एवं मम इतिहासं, साहित्यं च प्रति प्रेम समुद्भूतम् । ततः मम रुचिः साहित्यक्षेत्रे अपि अवर्धत । तृतीया व्यक्तिः, यया मम जीवनं प्रभावितं सः मम हिन्दीशिक्षकः आई बी सिंह । सः हिन्दीभाषायाः शब्दान् अतिमाधुर्येण, असामान्यरीत्या च प्रयुञ्जते स्म । अहम् अद्यापि स्मरामि तस्य वचनानि । यथा – 'और उन्होंने क्रान्ति के बीज बोए...' । एतैः शब्दैः ज्ञानं भवति स्म यत्, शब्दमाध्यमेन कापि व्यक्तिः क्रान्तेः बीजानि वपितुं शक्नोति इति । एतेषां सर्वेषां प्रभावः बाल्यकालाद् मयि आसीत् । अतः अहं चिकित्साविषयस्य (MBBS) ज्ञानं प्राप्य अपि कलां प्रति आकृष्टः अस्मि" इति ।

श्रीचन्द्रप्रकाशस्य योगदानम्

रङ्गमञ्चक्षेत्रे कार्यं यदा श्रीचन्द्रप्रकाशेन प्रारब्धं, तदा प्रारम्भिक्याम् अवस्थायां तेन बहुसङ्घर्षः कृतः । परन्तु तस्य अविरतपरिश्रमस्य फलस्वरूपतः सः लेखनक्षेत्रे, निदेशनक्षेत्रे च स्वप्रतिष्ठां स्थापयितुं समर्थः अभवत् । १९८६ तमस्य वर्षस्य अप्रैल-मासस्य सप्तमे (७/४/१९८६) दिनाङ्के श्रीचन्द्रप्रकाशेन दूरदर्शनमाध्यमस्य कर्मचारिणः सम्मुखं चाणक्य-धारावाहिकस्य प्रसारणं कर्तुं प्रस्तावः कृतः । तत् धारावाहिकम् अतिप्रसिद्धम् अभवत् । ततः १९९० तमे वर्षे सः 'Zee TV' नामकस्य दूरदर्शनजालस्य अध्यक्षः अभवत् ।

चाणक्यधारावाहिकम्

१९९१ तमस्य वर्षस्य सितम्बर-मासस्य अष्टमे (८/९/१९९१) दिनाङ्के दूरदर्शनमाध्यमेन चाणक्य-धारावाहिकस्य प्रसारणम् आरब्धम् । तत् प्रसारणं १९९२ तमस्य वर्षस्य अगस्त-मासस्य नवमे (९/८/१९९२) दिनाङ्के पूर्णम् अभवत् । तस्य धारावाहिकस्य निर्माणकार्यं श्रीचन्द्रप्रकाशेन सार्धैकवर्षे समापितम् आसीत् । तस्मिन् धारावाहिके सः मुख्यभूमिकायाः अर्थात् चाणक्यत्वेन अभिनयम् अकरोत् [८]

चाणक्यधारावहिकस्य केचन प्रशंसकाः श्रीचन्द्रप्रकाशं "चन्द्र प्रकाश चाणक्य" एव वदन्ति [८] । तस्य धारावाहिकस्य ख्यातिः चिरकालीना वर्तते ।

उपनिषद् गङ्गा-धारावाहिकम्

२०१२ तमस्य वर्षस्य मार्च-मासस्य एकादशे (११/३/२०१२) दिनाङ्के उपनिषद् गङ्गा-आख्यस्य धारावाहिकस्य प्रसारणं दूरदर्शनमाध्यमेन आरब्धम् । यतो हि तस्य धारावाहिकस्य आरम्भकाले एव सुनिश्चितम् आसीत् यत्, उपनिषद् गङ्गा-धारावाहिकं केवलं द्विपञ्चाशत् (५२) प्रकरणात्मकं धारावाहिकं भविष्यति इति । अतः तस्य धारावाहिकस्य प्रसारणं २०१३ तमस्य वर्षस्य मार्च-मासस्य एकोनत्रिंशत्तमे (२९/३/२०१३) दिनाङ्के पूर्णम् अभवत् [९] । २००६ तमस्य वर्षस्य अन्तिममासेषु तस्य धारावाहिकस्य निर्माणकार्यम् आरब्धम् आसीत् । श्रीचन्द्रप्रकाशेन सह चिन्मय मिशन्-संस्थायाः कार्यकर्तारः, अन्ये सहकर्मिणः च आसन्, यैः मिलित्वा उपनिषद् गङ्गा-धारावाहिकस्य संवादाः सज्जीकृताः । प्रारम्भिके काले तैः चिन्तितम् आसीत् यत्, सर्वेषां द्विपञ्चाशत्प्रकरणानां संवादान् लिखित्वा अन्ते सर्वेषां निर्माणं करिष्यामः इति । परन्तु ततः निर्णये परिवर्तनं जातं प्रारम्भे द्वादशप्रकरणानि यावत् संवादाः लिखिताः, अभिनीताश्च । ततः अन्येषां प्रकरणानां लेखनम्, अभिनयं च अभवत् । एवं चतुर्षु वर्षेषु उपनिषद् गङ्गा-धारावाहिकस्य कार्यं पूर्णम् अभवत् [९]

उपनिषद् गङ्गा-धारावाहिकस्य मुख्यसूत्रधारः अभिमन्यु सिंह वर्तते । श्रीचन्द्रप्रकाशेन तस्य चयनावसरे ज्ञातं यत्, अभिमन्युः संस्कृतसाहित्येन अनुस्नातकः वर्तते इति । यतो हि संस्कृतसम्बद्धे तस्मिन् धारावाहेके हिन्दीभाषया सह संस्कृतस्यापि अधिकः उपयोगः भविष्यति इति श्रीचन्द्रप्रकाशः जानाति स्म । अतः सः अभिमन्योः चयनं मुख्यसूत्रधारत्वेन अकरोत् । अभिन्योः अत्युत्कर्षेण अभिनयेन सह संस्कृतस्य संयोगः एव अभिमन्योः चयनस्य कारणम् अभवत् [९]

महोल्ला अस्सि

२०११ तमस्य वर्षस्य जनवरी-मासस्य अष्टादशे (१८/१/२०११) दिनाङ्के महोल्ला अस्सि इत्याख्यस्य चलच्चित्रस्य शूटिङ्ग-कार्यम् आरभत श्रीचन्द्रप्रकाशः । ततः २०११ तमस्य वर्षस्य मार्च-मासस्य पञ्चदशे (५/३/२०११) दिनाङ्के तस्य चलच्चित्रस्य शूटिङ्ग-कार्यं पूर्णम् अभवत् । एवं महोल्ला अस्सि इत्याख्यस्य चलच्चित्रस्य निर्माणकार्यं केवलं द्विचत्वारिंशद्दिनेषु (४२) पूर्णम् अभवत् [९] । निर्माणानन्तरं नाट्यगृहेषु तस्य चलच्चित्रस्य मञ्चनं २०१३ तमस्य वर्षस्य जनवरी-मासे निर्धारितम् आसीत् । परन्तु अनेकैः कारणैः वशीभूते सति तस्य चलच्चित्रस्य मञ्चनम् एतावता नाभवत् । परन्तु शीघ्रं हि दर्शकाः तत् चलच्चित्रं नाट्यगृहेषु द्रष्टुं प्रभविष्यन्ति इति अनुमीयते [९]

पिञ्जर-चलच्चित्रम्

पिञ्जर-आख्यं चलच्चित्रं हिन्दीभाषायाम्, उर्दुभाषायां, पञ्जाबी-भाषायां च प्रकाशितम् आसीत् । १८८ निमेषात्मके तस्मिन् चलच्चित्रे हिन्दुधर्मचारिण्याः एकस्याः महिलायाः अनुभवाः उल्लिखिताः । तया महिलया ते अनुभवाः १९४७ तमस्य वर्षस्य भारत-पाकिस्थानविभाजनकाले अनुभूताः आसन् । पिञ्जर-चलच्चित्रस्य कथा पञ्जाबी-भाषायां प्रकाशितात् पिञ्जर-आख्यात् पुस्तकात् श्रीचन्द्रप्रकाशेन स्वीकृता । तस्य पुस्तकस्य लेखिका अमृता प्रितम आसीत् । २००४ तमस्य वर्षस्य Filmfare Best Art Direction Award इत्याख्यं पदकं तेन चलच्चित्रेण प्राप्तम् । तथा च मनोज बाजपेयी यः चलच्चित्रस्य मुख्यनायकः आसीत्, तेनापि राष्ट्रियपुरस्कारम् इति सम्मानः प्राप्तः ।

अभिनयविषये श्रीचन्द्रप्रकाशः

श्रीचन्द्रप्रकाशेन अनेकानि कार्णाणि कृतानि सन्ति । परन्तु तेषु चाणक्य-धारावाहिकस्य निर्माणं, निदेशनम्, अभिनयं च अतिप्रसिद्धम् अभवत् । प्रत्येकस्मिन् वर्षे जनाः श्रीचन्द्रप्रकाशं निवेदयन्ति यत्, भवान् अभिनयं करोतु इति । परन्तु श्रीचन्द्रप्रकाशस्य कथनम् अस्ति यत्, चाणक्यस्य विचारैः प्रभावितः अहं तस्य ऊर्जायाः सञ्चरणं मम शरीरे अनुभवामि स्म । अतः अहं तस्मिन् धारावाहिके चाणक्यस्य अभिनयं कर्तुं समर्थः अभवम् । इतः परं यदि तादृशः अवसरः आगमिष्यति, तर्हि अहं निश्चयेन अभिनयं करिष्यामि । परन्तु अहं चाणक्यधारावाहिके यत् अभिनयम् अकरवम्, तस्मात् अधिकं रचनात्मकं कार्यं भविष्यति चेदेव अहम् अभिनयं करिष्यामि इति [९]

श्रीचन्द्रप्रकाशेन प्राप्तानि पुरस्काराणि

१. Screen Videocon Best Director

२. Asian Cinema Foundation honoured Dwivedi with its Cultural Catalyst

रचनाः

१. चाणक्य-धारावाहिकम् (१९९१-१९९२, ४७ प्रकरणानि)

२. मृत्युञ्जय

३. एक और महाभारत (१९९७)

४. पिञ्जर (२००३)

५. उपनिषद् गङ्गा (२०१२, ५२ प्रकरणानि)

६. महोल्ला अस्सि (२०१४)

७. झेड् प्लस् (२०१४)

८. लेजेण्ड ऑफ् कुनाल (२०१४ निर्माणाधीनम्)

बाह्यसम्पर्कतन्तुः

http://www.rediff.com/movies/2003/oct/22chandra.htm

http://www.tribuneindia.com/2003/20031012/spectrum/tv.htm

http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news-interviews/Chandraprakash-Dwivedi-in-Shekhawati-for-shoot/articleshow/29821524.cms?referral=PM

http://www.ibtl.in/news/vande-matru-sanskriti/1726/upanishad-ganga-:-a-series-exploring-vedic-culture

http://www.imdb.com/name/nm1363374/bio?ref_=nm_ov_bio_sm

उद्धरणम्

फलकम्:Reflist

फलकम्:शिखरं गच्छतु