चक्रवर्ती राजगोपालाचारी

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox Officeholder

'राजाजी' इति प्रसिद्धः चक्रवर्ती राजागोपालाचार्यः (Tamil: சக்ரவர்த்தி ராஜகோபாலாச்சாரி Cakravartī Rācakōpālācārī) (डिसेम्बर् १०, १८७८ - डिसेम्बर् २५, १९७२) कश्चन भारतीयन्यायवदी, स्वातन्त्रसेनानी, राजनीतिज्ञः, लेखकश्च । अयं भारतस्य अन्तिमः राज्यपालः (गवर्नर्-जेनेरल्) आसीत् । भारतीयराष्ट्रियकाङ्ग्रेस्पक्षस्य नायकत्वेन, मड्रास्प्रेसिडेन्सि-प्रीमियर्रूपेण, पश्चिमवङ्गस्य राज्यपालत्वेन, इण्डियन्-यूनियन्-मन्त्री, मड्रास्-राज्यस्य मुख्यमन्त्री च आसीत् । स्वतन्त्रपक्षस्य संस्थापकः सः । भारतरत्नस्य प्रथमः पुरस्कारभाक् अयम् । अण्वस्त्रप्रयोगस्य परमविरोधी सः जगतः शान्तेः तीव्रः प्रतिपादकः आसीत् । सेलमस्य आम्रम् इति तेन उपनाम प्राप्तम् आसीत् ।

जन्म, परिवारश्च

अयं तमिलुनाडुराज्यस्य सेलम्जनपदे तोरपल्लिग्रामे जन्म प्राप्नोत् ।

शिक्षणम्

बेङ्गलूरुनगरस्थे सेण्ट्रल्-महाविद्यालये, मड्रास्नगरस्थे प्रेसिडेन्सि-महाविद्यालये च सः शिक्षणं प्राप्तवान् [१]

राजनैतिकजीवनम्

१९०० तमे वर्षे सः न्यायवादीरूपेण कार्यम् आरब्धवान् [२]। राजनैतिकक्षेत्रं प्रविष्टवता तेन आदौ सेलम्-मुनिसिपालिटि-मध्ये अध्यक्षत्वं गृहीतम् [३]। राष्ट्रियकाङ्ग्रेस्पक्षं प्रविष्टवता तेन रावल्ट्-क्रिया, असहकारान्दोलनम्, वैकोम्-सत्याग्रहः इत्यादिषु भागः गृहीतः । दण्डीसत्याग्रहस्य प्रतिस्पन्दरूपेण वेदारण्यं लवणसत्याग्रहः तेन निरूढः इत्यनेन सः कारागारे स्थापितः [४]। मड्रासे-प्रेसिडेन्सि-प्रीमियर्रूपेण चितः सः १९४० पर्यन्तं कार्यं निरवहत् । ततः जर्मनीदेशेन ब्रिटन्देशः युद्धार्थं सन्नद्धः जातः इत्यतः सः स्वस्य त्यागपत्रम् अयच्छत् । क्विट्-इण्डिया-आन्दोलनस्य विरोधं कृतवान् अयं मुहम्मद् आलि जिन्नेन मुस्लीम् लीग् नायकेन च सह वार्तालापं कृत्वा समानसूत्रताम् आनयत् । १९४६ तमे वर्षे सः भारतसर्कारस्य उद्योग-वितरण-शिक्षण-आर्थिकमन्त्रित्वेन दायित्वं प्राप्नोत् । १९४७-४८ अवधौ पश्चिमवङ्गस्य राज्यपालत्वेन, १९४८-५० भारतस्य राज्यपालत्वेन, केन्द्रगृहमन्त्रिरूपेण १९५१-५२, मड्रास्-मुख्यमन्त्रित्वेन १९५२-५४ वर्षे च कार्यम् अकरोत् । १९५९ तमे वर्षे सः काङ्ग्रेस्पक्षसदस्यत्वाय त्यागपत्रं दत्त्व स्वतन्त्रानामकं नूतनं पक्षं समस्थापयत् । सि एन् अण्णादोरैवर्येण सह मड्रासराज्ये काङ्ग्रेस्विरोधपक्षस्य संस्थापने सहकारम् अयच्छत् । १९६७ तमे वर्षे तेन पक्षेण विजयः प्राप्तः ।

अयं कश्चन प्रबुद्धः लेखकः आसीत् । भारतीय-आङ्ग्ल-साहित्याय तदीयं योगदानम् अस्ति अपूर्वम् । सः देवालय-प्रवेशान्दोलने भागम् अवहत् । निम्नजनानाम् उन्नत्यर्थं सः प्रोत्साहम् अयच्छत् । अनिवार्यरूपेण हिन्दीभाषायाः आनयने अस्य प्रयासः वर्तते इति विमर्शकानाम् अभिप्रायः [५]

फलकम्:भारतरत्नपुरस्कारभाजः

बाह्यसम्पर्कतन्तु

आकराः

फलकम्:Reflist