गौः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Taxobox

गौः

गोविषये वाचसपत्यकोशे एवं विवरणं प्राप्यते -

गो – (पुं / स्त्री) स्वनामख्याते पशुभेदे। गच्छत्यनेन गम- करणे डो। वृषस्य यानसाधनत्वात्। स्त्रीगव्याश्च दानद्वारा स्वर्गगतिसाधनत्वाच्च तथात्वम्। गतिसाधनतया तस्य तथार्थत्वयोगेन यौगिकत्वेपि योगरूढत्वम्। -वाचस्पत्य:।

गोभेदा: - दशविधा: गाव: बृहद्विष्णुपुराणे उत्तरखण्डे १५० तमेध्याये – प्रथमा गौरकपिला द्वितीया गौरपिङ्गला। तृतीया रक्तकपिला चतुर्थी नीलपिङ्गला। पञ्चमी शुक्लपिङ्गाक्षी षष्ठी तु शुक्लपिङ्गला। सप्तमी चित्रपिङ्गाक्षी अष्टमी बभ्रुरोहिणी। नवमी श्वेतपिङ्गाक्षी दशमी श्वेतपिङ्गला॥ तादृशास्तेऽप्यनड्वाहा: ...॥ -वाचस्पत्य:।

भारतीयानां श्रद्धाबिन्दुषु गौ: एकं महत्त्वपूर्णं स्थानम् अलङ्करोति । भारतीया: गा: मातृत्वेन पश्यन्ति, पालयन्ति च । न केवलं दुग्धदातृत्वेन गवां मातृत्वम् । बहुविधदिव्यगुणानां निलय: भवति गौ: । गवि गव्ये च दिव्यत्वम् अस्ति । तादृशगाव: दुग्धदानयन्त्राणि नैव । ता: राष्ट्रसौभाग्यदायिन्य: । परोपकारगुणेन गोतुल्यजन्तु: नान्य: अस्ति भूतले ।

भारतीया: गौः वीथीषु अटन्ती लब्धेन तृणेन, पर्णेन अवकरेण वा, मानवेन अनावश्यकम् इति त्यक्तेन पदार्थेन वा स्वोदरं प्रपूर्य परेद्यवि अमृतसदृशं क्षीरं ददाति गौ: । गोक्षीरं, तदुत्पन्नानि, गोमूत्रं, गोमयम् - एवं गव्यं सर्वमपि समाजपोषकं भवति । ‘गो - उत्पन्नानि’ सम्पद्वृद्धिकराणि । उक्तं च - ‘‘धेनु: सदनं रयीणम् ।’’ (गो: सम्पदां निलय:) इति । प्राचीनकाले समाजस्य सुखसम्पद: स्तरं गणयितुं तत्रत्या: गाव: प्रमाणम् आसन् । धार्मिककार्यक्रमेषु अन्नदानसन्दर्भे सर्वप्रथमं गवे भोजनं दत्त्वा - ‘‘गावो मे मातर: सन्तु पितर: सन्तु गोवृषा: ।

ग्रासमुष्टि मया दत्तां प्रतिगृह्णन्तु मातर: ॥ इति कथनसम्प्रदाय: अस्ति । ‘धेनुर्माता परमशिवा,’ गावो विश्वस्य मातर:’, गोब्राह्मणेभ्य: शुभमस्तु नित्यम् । लोका: समस्ता: सुखिनो भवन्तु’ इति च वदन्त: भारतीया: गवां शुभं कामयन्ते । गवां गव्यानां च दिव्यगुणा: एव एतादृशश्रद्धाया: कारणं स्यात् । गव्यपदार्थम् उपयुज्य अद्य बहूनि वैज्ञानिकसंशोधनानि अपि अभवन् । गवां गव्यानां च विषये ईषदत्र दृष्टि प्रसारयाम: । भारतीयगाव:

अन्ड्वान्

गोषु भारतीयगवां स्वभावे किञ्चिद् वैशिष्ट्यमस्ति । भारतीयगाव: सामान्यवातावरणवैपरीत्यं सोढुं शक्नुवन्ति । आतपे वृष्टौ अटित्वापि ता: आरोग्यवत्य: एव भवन्ति । विदेशीयगवां (जर्सीत्यादिसन्ततीनां) रोगनिरोधकशक्ति: न्यूना । महिष्यादिभ्य: गाव: अधिकक्रियाशीला: भवन्ति । गोवत्स: जन्मन: घण्टानन्तरमेव चलितुं प्रभवति । दिनत्रयाभ्यन्तरे एव उत्साहेन कूर्दति । महिषीवत्स: अपि घण्टानन्तरमेव चलितुं प्रभवति ; किन्तु मासपर्यन्तमपि स: मन्द: एव भवति । षष्ट्यधिकगवां मध्ये त्यक्त: अपि गोवत्स: स्वमातरम् अन्वेष्टुं कष्टं नानुभवति । महिषीवत्सस्तु 20महिषीणां मध्ये त्यक्त: अपि स्वमातरं सुलभतया परिचेतुं न शक्नोति इति वदन्ति । गवां किमपि नामकरणं कृत्वा प्रतिदिनम् आह्वयाम: चेत् ता: झटिति प्रतिस्पन्दन्ते । प्रात: चारणार्थं पे्रषिता: गाव: सायं निश्चिते समये स्वयमेव स्वस्थानं प्रत्यागच्छन्ति । महिषीणां नियतरूपेण एवं न भवति इति श्रूयते ।


गोसम्बन्धीनि (गोविकारा:) सर्वाणि अपि अत्यन्तम् उपयोगीनि इति पुनर्वक्तव्यं नास्ति । तथापि तेषाम् उपयोगविषये संक्षिप्त: परिचय: अत्र दत्त: अस्ति -

  1. गोक्षीरम्
  2. दधि
  3. तक्रम्
  4. नवनीतम्
  5. घृतम्
  6. गोमूत्रम्
  7. गोमयम्
  8. पञ्चगव्यम्

गोविषयकं किञ्चन सुभाषितं स्मर्तुमत्र योग्यं प्रतिभाति - ‘‘ स्पृष्टाश्च गाव: शमयन्ति पापं संसेविताश्चोपनयन्ति वित्तम् । ता एव दत्तास्त्रिदिवं नयन्ति गोभिर्न तुल्यं धनमस्ति किञ्चित् ॥ इति । वस्तुत: सत्यमिदम् । विविधगुणानाम् आगरभूतानां गवां सेवा राष्ट्रस्य अभ्युदयहेतु: । न केवलं पुण्यदृष्ट्या गाव: संरक्षणीया: ; राष्ट्रियकर्तव्य-बुद्ध्या च ता: संरक्षणीया: । राष्ट्रहितकारिण्य: गोमातर: किमर्थं दुग्धयन्त्रमिव द्रष्टव्या: ? गोरक्षाविषये सर्वकारेण किमर्थं सार्वत्रिकनियमा: न निरूपिता: ? देशे बहुत्र प्राणिवधकेन्द्राणि सन्ति । प्रत्यहं तत्र बहव: गाव: नीयन्ते । अत्यन्तं क्रौर्येण तासां वध: प्रचलति ।

गोवंशद्वारा बहुविधभौतिकलाभान् प्राप्नुवतां, तासां धार्मिकं महत्त्वं ज्ञातवताम् अस्माकं भारतदेशे गोवधनिषेध: नियमेन घोषणीय: इति किं पुन: प्रतिपादनीयम् ? गवामपि सुखदु:खानुभूतिसामर्थ्यमस्ति, मन:, हृदयं चास्ति इति न विस्मर्तव्यम् । मूकप्राणिनाम् इति तेषामुपरि क्रौर्यप्रदर्शनं न युक्तम् । यदि बहूपकारिणी गौ: मानवस्य पुरत: मुखमुद्घाट्य ‘‘क्षीरमलमूत्रादिकं मदीयं सर्वस्वं समाजाय । समाजाय दातुं किमस्ति भवदीयम् ?’’ इति पृच्छति तर्हि उत्तररूपेण किं वा वदेत् मानव: ? स्मृतिकारै: तु गोहत्या पातकत्वेन परिगणिता । गोदानस्य महत्फलं वर्णितं स्मृतिग्रन्थेषु । बहूनां पापकर्मणां प्रायश्चित्तरूपेण ‘गोसेवा’ विहिता । भोजनसमये यदि गवाम् आक्रन्दनध्वनि: श्रूयते तर्हि भोजनं तत्रैव स्थगयित्वा आदौ गाव: विचारणीया: इति वदन्ति केचन सम्प्रदायविद:। गोमयस्य उपरि मानवेन मलमूत्रादिकं न विसर्जनीयम् इति मनुना नियम: विहित: । गोमयविषये एव एतादृशी श्रद्धा चेत् गो: विषये कियती श्रद्धा धारणीया !

महाराजेन दिलीपेन स्वयंकृतस्य गोविषयकापराधस्य प्रायश्चित्तरूपेण गोसेवा कृता । गोरक्षार्थं भगवान् गोपालकृष्ण: श्रीकृष्ण: कालियमर्दनं चकार, गोवर्धनगिरिं च उद्धृतवान् ।

गवि देवताः

अद्य न केवलं गोरक्षा, भारतीयगोसन्ततिरक्षा अपि करणीया अस्ति । गोचारणाभूमय: संरक्षणीया: । एतस्यां दिशि भारतीयै: अस्माभि: गम्भीरतया चिन्तनीयमस्ति । ॥ गाव: सन्तु सन्तुष्टा: ॥

गौः मङ्गलदर्शना । सा प्रकृत्या आकारेण च परमा साध्वी भवति । तस्याः सखुराः चत्वारः पादाः भवन्ति । तस्याः पुच्छं लम्बं, सरलं शृङ्गयुगलं, शोभने विशाले च नेत्रे दीर्घौ कर्णौ भवन्ति । अस्याः धेनुः इति नामान्तरम् अस्ति ।

भुक्त्वा तृणानि शुष्कानि पीत्वा तोयं जलाशयात् ।
दुग्धं ददति लोकेभ्यो गावो विश्वस्य मातरः॥

भारतीयाः गाः मातरम् इव अर्चयन्ति । गवि ३३कोटिदेवताः निवसन्ति इति भारतीयानां विश्वासः । गावः बहूपयोगाय भवन्ति । गोक्षीरं तज्जन्यपदार्थनाम्

उपयोगं मानवः बहोः कालात् कुर्वन् अस्ति । धेनवः कृषकस्य जीवनाड्यः भवन्ति । कषीवलः गोमयगोमूत्रभ्याम् उत्तमं दोहदं निर्मीय कृषिकर्म कृत्वा देशाय निर्विषम् अन्नं ददाति ।

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=गौः&oldid=9781" इत्यस्माद् प्रतिप्राप्तम्