गोकुरासस्यम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Italic titleफलकम्:Taxobox

Tribulus terrestris

इदं गोकुरासस्यं भारते वर्धमानः कश्चन सस्यविशेषः । इदं सस्यं भारतस्य सर्वेषु प्रदेशेषु अपि वर्धते । इदं सस्यं भूमौ प्रसारितम् इव वर्धते । अस्य सस्यस्य औन्नत्यं २ – ३ पादमितं भवति । अस्य गोकुरासस्यस्य पत्राणि अत्यन्तं लघ्वाकारकाणि, विभिन्नानि आकारकाणि च । अस्य पुष्पाणि अत्यन्तं मनोहराणि, पीतवर्णीयानि च भवन्ति । अस्य सस्यस्य फलेषु ५ – १० कण्टकानि भवन्ति । तानि कण्टकानि अत्यन्तं तीक्ष्णानि भवन्ति । अस्य गोकुरासस्यस्य मूलं ४ – ६ अङ्गुलं यावत् दीर्घं भवति ।

इतरभाषाभिः अस्य गोकुरासस्यस्य नामानि

इदं गोकुरासस्यम् आङ्ग्लभाषयाTribulus terrestris इति उच्यते । हिन्दीभाषया“गोखरू” इति, तमिळ्भाषायां “पान्नेरु मुल्लु” इति, मलयाळभाषया“नेरेङ्गळ्” इति, कन्नडभाषया“नेग्गिलगिड’ इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य गोकुरासस्यस्य प्रयोजनानि

अस्य गोकुरासस्यस्य रसः मधुरः । इदं गुरुगुणयुक्तं स्निग्धं च सस्यम् । अस्य बीजे ३.५ – ५ % यावत् तैलांशः (सुगन्धतैलम्), टैनिन्, सेपोनिन्, क्षारः च भवन्ति । अस्य सस्यस्य फलं मूलं चापि औषधत्वेन उपयुज्यते ।

  1. इदं गोकुरासस्यं वातं पित्तं च शमयति ।
  2. नाडीनां दौर्बल्ये अस्य उपयोगः हितकरः ।
  3. इदम् अग्निदौर्बल्यं, शोथं, रक्तपित्तं, मूलव्याधिं च निवारयति ।
  4. अस्य गोकुरासस्यस्य उपयोगेन कासः, श्वासरोगः, मूत्रकृच्छं, गर्भपातसमस्या च परिहृताः भवन्ति ।
  5. अस्य फलस्य चूर्णं ३ – ६ ग्रां यावत्, कषायं ३० मि. ली. यावत् सेवनीयम् ।
  6. मूत्रले इदं गोकुरासस्यम् अत्यन्तं प्रसिद्धम् औषधीयं सस्यम् ।
  7. इदं हृद्रोगे, सर्वाङ्गानां शोथे चापि उपयुज्यते ।

फलकम्:Reflist

"https://sa.bharatpedia.org/index.php?title=गोकुरासस्यम्&oldid=10297" इत्यस्माद् प्रतिप्राप्तम्