गुजरितोडिरागः
नेविगेशन पर जाएँ
खोज पर जाएँ
गुजरितोडिरागः (Gujaritodi Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन प्रसिद्धः रागः। 'शुद्धतोडिरागस्य' उत 'मीया कि तोडिरागस्य' पञ्चमं स्वरं वर्जयामश्चेत् 'गुजरीतोडिरागः' भवति । उत्तराङ्गप्रधानः रागः भवति । अस्य रागस्य वादिस्वरः दैवतः (ध) भवति। संवादिस्वरः ॠषभस्वरः (र) भवति । प्रातः कालस्य प्रथमयामस्य कालः अस्य रागस्य प्रशस्तः कालः भवति । भक्तिरसस्य तथा करुणरसयोः प्रधानः रागः भवति।
- श्यामा सुकेशी मलयद्रुमाणाम्,
- मृदूल्लसत् पल्लवतल्पमध्ये।
- श्रुतिस्वराणां दधती विभागम्
- तन्त्रीमुखाद् दक्षिणगुर्जरीयम्॥
रामक्री तोडिसंयुक्ता वराटीमिश्रिता पुनः।
गुर्जरी जायते विद्वन् आद्ययामे प्रगीयते॥
- आरोहः- स रे ग म ध नि स
- अवरोहः- स नि ध म ग रे ग रे स
- पक्कड – म ध नि ध म रे ग रे स
समयः
प्रातः ६ तः ९ वादनपर्यन्तम् उत्तमसमयः भवति।
थाट्
- तोडि