गतसङ्गस्य मुक्तस्य...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ २३ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य त्रयोविंशतितमः(२३) श्लोकः ।

पदच्छेदः

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः यज्ञाया आचरतः कर्म समग्रं प्रविलीयते ॥ २३ ॥

अन्वयः

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः यज्ञाय आचरतः कर्म समग्रं प्रविलीयते ।

शब्दार्थः

गतसङ्गस्य = निष्कामस्य
मुक्तस्य = रागादिविमुक्तस्य
ज्ञानावस्थितचेतसः = ज्ञानार्थं यतमानस्य
यज्ञाय आचरतः = यागाय एव आचरतः जनस्य
कर्म = कर्म
समग्रम् = समस्तम्
प्रविलीयते = विनश्यति ।

अर्थः

यः आसक्तिरहितः देहाभिमानविहीनः ममताशून्यः सततं परमात्मज्ञाने स्थिरमानसः च अस्ति यश्च ब्रह्मार्थं कर्म आचरति तस्य समग्रमपि कर्म विनश्यति ।

शाङ्करभाष्यम्

त्यकत्वा कर्मफलासङ्गमित्यनेन शेलोकेन यः प्रारब्धकर्मा सन् यदा निष्क्रियब्रह्मात्मदर्शनसंपन्नः स्यात्तदा तस्यात्मनः कर्तृककर्मप्रयोजनाभावदर्शिनः कर्मपरित्यागेप्राप्ते कुतश्चिन्निमित्तदसंभवे सति पूर्ववत्तस्मिन्कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति स इति च कर्माभावः प्रदर्शितः, यस्यैवं कर्माभावो दर्शितस्तस्यैवगतसङ्गस्य सर्वतोऽनिवृत्तासक्तेर्मुक्तस्य निवृत्तधर्माधर्मादिबन्धस्य ज्ञानावस्थितचेतसो ज्ञाने एवावस्थितं चेतो यस्य सोऽयं ज्ञानावस्थितचेतास्तस्य यज्ञाययज्ञनिर्वृत्त्यर्थमाचरतो निर्वर्तयतः कर्म समग्रं सहाग्रेण कर्मफलेन वर्तत इति समग्रं कर्म तत्समग्रं प्रविलीयते विनश्यतीत्यर्थः।।23।।

फलकम्:गीताश्लोकक्रमः

फलकम्:ज्ञानकर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=गतसङ्गस्य_मुक्तस्य...&oldid=6450" इत्यस्माद् प्रतिप्राप्तम्